Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1252

1875 Mantra
Devata- इन्द्रः Rishi- जेता माधुच्छन्दसः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
इ꣢न्द्र꣣मी꣡शा꣢न꣣मो꣡ज꣢सा꣣भि꣡ स्तोमै꣢꣯रनूषत । स꣣ह꣢स्रं꣣ य꣡स्य꣢ रा꣣त꣡य꣢ उ꣣त꣢ वा꣣ स꣢न्ति꣣ भू꣡य꣢सीः ॥१२५२॥

इ꣡न्द्र꣢꣯म् । ई꣡शा꣢꣯नम् । ओ꣡ज꣢꣯सा । अ꣣भि꣡ । स्तो꣡मैः꣢꣯ । अ꣣नूषत । स꣣ह꣡स्र꣢म् । य꣡स्य꣢꣯ । रा꣣त꣡यः꣢ । उ꣣त꣢ । वा꣣ । स꣡न्ति꣢꣯ । भू꣡य꣢꣯सीः ॥१२५२॥

Mantra without Swara
इन्द्रमीशानमोजसाभि स्तोमैरनूषत । सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥

इन्द्रम् । ईशानम् । ओजसा । अभि । स्तोमैः । अनूषत । सहस्रम् । यस्य । रातयः । उत । वा । सन्ति । भूयसीः ॥१२५२॥

Samveda - Mantra Number : 1252
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(ओजसा) बलेन प्रतापेन वा (ईशानम्) जगतो देहस्य वा शासकम् (इन्द्रम्) परमेश्वरं जीवात्मानं वा, सर्वे जनाः (स्तोमैः) तद्गुणकीर्तनपरैः स्तोत्रैः (अभि अनूषत) अभिष्टुवन्ति, (यस्य) परमेश्वरस्य जीवात्मनो वा (सहस्रम्) सहस्रसंख्याकाः (उत वा) अथवा (भूयसीः) ततोऽप्यधिकाः (रातयः) दत्तयः (सन्ति) भवन्ति ॥३॥२
Essence
परमेश्वरमुपास्य जीवात्मानं च प्रोद्बोध्य तयोर्दानानि सर्वे प्राप्तुमर्हन्ति ॥३॥ अस्मिन् खण्डे परमात्मनो जीवात्मनो नृपतेश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ पुनरपि परमात्मजीवात्मनोर्विषयमाह।
Footnote
१. ऋ० १।११।८, ‘स्तोमा॑ अनूषत’ इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयमीश्वरविषये व्याख्यातः।