Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1251

1875 Mantra
Devata- इन्द्रः Rishi- जेता माधुच्छन्दसः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
त्वं꣢ व꣣ल꣢स्य꣣ गो꣢म꣣तो꣡ऽपा꣢वरद्रिवो꣣ बि꣡ल꣢म् । त्वां꣢ दे꣣वा꣡ अबि꣢꣯भ्युषस्तु꣣ज्य꣡मा꣢नास आविषुः ॥१२५१॥

त्वम् । व꣣ल꣡स्य꣢ । गो꣡म꣢꣯तः । अ꣡प꣢꣯ । अ꣣वः । अद्रिवः । अ । द्रिवः । बि꣡ल꣢꣯म् । त्वाम् । दे꣣वाः꣢ । अ꣡बि꣢꣯भ्युषः । अ । बि꣣भ्युषः । तुज्य꣡मा꣢नासः । आ꣣विषुः ॥१२५१॥

Mantra without Swara
त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् । त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥

त्वम् । वलस्य । गोमतः । अप । अवः । अद्रिवः । अ । द्रिवः । बिलम् । त्वाम् । देवाः । अबिभ्युषः । अ । बिभ्युषः । तुज्यमानासः । आविषुः ॥१२५१॥

Samveda - Mantra Number : 1251
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अद्रिवः) अविनश्वर परमेश्वर जीवात्मन् वा ! (त्वम् गोमतः) पिहितसत्त्वगुणप्रकाशस्य, (वलस्य) आवरकस्य तमोगुणस्य (बिलम्) गुहाम् (अपावः) अपवृणोषि विदारयसि। [अपपूर्वाद् वृणोतेः लडर्थे लुङ्। ‘मन्त्रे घसह्वर०। अ० २।४।८०’ इति च्लेर्लुक्।] (तुज्यमानासः) हिंस्यमानाः। [तुज हिंसायाम्, भ्वादिः।] (देवाः) प्रकाशकानि मनोबुद्धिसहितानि ज्ञानेन्द्रियाणि विद्वांसो वा (अबिभ्युषः) भयमकुर्वाणाः (त्वाम्) परमात्मानं जीवात्मानं वा (आविषुः) प्राप्नुवन्ति, शरणं गच्छन्ति। [अवतेर्व्याप्त्यर्थस्य रूपम्। लडर्थे लुङ्] ॥२॥२
Essence
मनसि तमोगुणातिरेकेण यदा सत्त्वगुणो निर्बलो जायते तदा तमः प्रकाशमावृणोति। तदावरणं परमात्मप्रेरणया जीवात्मनो वा पुरुषार्थेन विदारयितुं शक्यते ॥२॥
Subject
अथ परमेश्वरो जीवात्मा च सम्बोध्यते।
Footnote
१. ऋ० १।११।५। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं सूर्यपक्षे व्याख्यातः।