Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1250

1875 Mantra
Devata- इन्द्रः Rishi- जेता माधुच्छन्दसः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
पु꣣रां꣢ भि꣣न्दु꣡र्युवा꣢꣯ क꣣वि꣡रमि꣢꣯तौजा अजायत । इ꣢न्द्रो꣣ वि꣡श्व꣢स्य꣣ क꣡र्म꣢णो ध꣣र्त्ता꣢ व꣣ज्री꣡ पु꣢रुष्टु꣣तः꣢ ॥१२५०॥

पु꣣रा꣢म् । भि꣣न्दुः꣢ । यु꣡वा꣢꣯ । क꣣विः꣢ । अ꣡मि꣢꣯तौजाः । अ꣡मि꣢꣯त । ओ꣣जाः । अजायत । इ꣡न्द्रः꣢꣯ । वि꣡श्व꣢꣯स्य । क꣡र्म꣢꣯णः । ध꣣र्त्ता꣢ । व꣣ज्री꣢ । पु꣣रुष्टुतः꣢ । पु꣣रु । स्तुतः꣢ ॥१२५०॥

Mantra without Swara
पुरां भिन्दुर्युवा कविरमितौजा अजायत । इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः ॥

पुराम् । भिन्दुः । युवा । कविः । अमितौजाः । अमित । ओजाः । अजायत । इन्द्रः । विश्वस्य । कर्मणः । धर्त्ता । वज्री । पुरुष्टुतः । पुरु । स्तुतः ॥१२५०॥

Samveda - Mantra Number : 1250
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रः) एष देहधारी जीवात्मा (पुराम्) शत्रुनगरीणाम् (भिन्दुः) भेत्ता, (युवा) यौवनसम्पन्नः, (कविः) क्रान्तद्रष्टा, (अमितौजाः) अपरिमितबलः, (विश्वस्य) सर्वस्य (कर्मणः) क्रियाकाण्डस्य (धर्ता) धारणकर्ता, (वज्री) शस्त्रास्त्रपाणिः, (पुरुष्टुतः) बहुस्तुतश्च (अजायत) जातोऽस्ति ॥१॥२
Essence
जीवात्मनि खल्वपूर्वा शक्तिर्निहिता। स्वशक्तिं परिचित्य स महान्ति कर्माणि कर्तुं शक्नोति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३५९ क्रमाङ्के परमेश्वरनृपतिसेनापतिसूर्यविषये व्याख्याता। अत्र जीवात्मविषय उच्यते।
Footnote
१. ऋ० १।११।४, साम० ३५९। २. ऋग्भाष्ये दयानन्दर्षिमन्त्रमिमं सूर्यसेनापत्योर्विषये व्याख्यातवान्।