Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1249

1875 Mantra
Devata- इन्द्रः Rishi- नृमेध आङ्गिरसः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
त्व꣡ꣳ हि शश्व꣢꣯तीना꣣मि꣡न्द्र꣢ ध꣣र्त्ता꣢ पु꣣रा꣡मसि꣢꣯ । ह꣣न्ता꣢꣫ दस्यो꣣र्म꣡नो꣢र्वृ꣣धः꣡ पति꣢꣯र्दि꣣वः꣢ ॥१२४९॥

त्वम् । हि । श꣡श्व꣢꣯तीनाम् । इ꣡न्द्र꣢꣯ । ध꣣र्त्ता꣢ । पु꣣रा꣢म् । अ꣡सि꣢꣯ । ह꣣न्ता꣢ । द꣡स्योः꣢꣯ । म꣡नोः꣢꣯ । वृ꣡धः꣢꣯ । प꣡तिः꣢꣯ । दि꣣वः꣢ ॥१२४९॥

Mantra without Swara
त्वꣳ हि शश्वतीनामिन्द्र धर्त्ता पुरामसि । हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥

त्वम् । हि । शश्वतीनाम् । इन्द्र । धर्त्ता । पुराम् । असि । हन्ता । दस्योः । मनोः । वृधः । पतिः । दिवः ॥१२४९॥

Samveda - Mantra Number : 1249
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमवीर जगदीश्वर राजन् वा ! (त्वं हि) त्वं खलु (शश्वतीनाम्) बह्वीनाम्। [शश्वदिति बहुनाम। निघं० ३।१।] (पुराम्) शत्रुनगरीणाम् (धर्ता) भेत्ता, (दस्योः) हिंसकस्य शत्रोः (हन्ता) विनाशयिता, (मनोः) मननशीलस्य शान्तिप्रियस्य (वृधः) वर्धयिता, (दिवः) तेजस्विनः जनस्य च (पतिः) रक्षकः (असि) भवसि ॥३॥
Essence
यथा जगदीश्वरो दुष्टानां भञ्जकः सज्जनानां च रक्षको भवति तथैव नृपतिनापि भाव्यम् ॥३॥
Subject
अथ परमेश्वरस्य नरेशस्य च वीरकर्माणि वर्ण्यन्ते।
Footnote
१. ऋ० ८।९८।६, अथ० २०।६४।३।