Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1248

1875 Mantra
Devata- इन्द्रः Rishi- नृमेध आङ्गिरसः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
अ꣣भि꣡ हि स꣢꣯त्य सोमपा उ꣣भे꣢ ब꣣भू꣢थ꣣ रो꣡द꣢सी । इ꣡न्द्रासि꣢꣯ सुन्व꣣तो꣢ वृ꣣धः꣡ पति꣢꣯र्दि꣣वः꣡ ॥१२४८॥

अ꣣भि꣢ । हि । स꣣त्य । सोमपाः । सोम । पाः । उभे꣡इति꣢ । ब꣣भू꣡थ꣢ । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । इ꣡न्द्र꣢꣯ । अ꣡सि꣢꣯ । सु꣣न्वतः꣢ । वृ꣣धः꣢ । प꣡तिः꣢꣯ । दि꣣वः꣢ ॥१२४८॥

Mantra without Swara
अभि हि सत्य सोमपा उभे बभूथ रोदसी । इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥

अभि । हि । सत्य । सोमपाः । सोम । पाः । उभेइति । बभूथ । रोदसीइति । इन्द्र । असि । सुन्वतः । वृधः । पतिः । दिवः ॥१२४८॥

Samveda - Mantra Number : 1248
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सत्य) सत्यगुणकर्मस्वभाव, (सोमपाः) शान्तिरक्षक जगदीश्वर ! त्वम् (हि) निश्चयेन (उभे रोदसी) उभे द्यावापृथिव्यौ (अभि बभूथ) तिरस्कृतवानसि। [‘बभूविथ इति प्राप्ते’ बभूथाततन्थजगृभ्मववर्थेति निगमे। अ० ७।२।६४,इतीट्प्रतिषेधो निपात्यते।] हे (इन्द्र) सर्वान्तर्यामिन् ! त्वम् (सुन्वतः) शान्तिस्थापनायज्ञं कुर्वतः (वृधः) वर्धयिता, (दिवः पतिः) तेजस्विनो जनस्य च रक्षकः (असि) विद्यसे ॥२॥
Essence
जगति ये शान्तिस्थापनाय यतन्ते तेषामेव परमेश्वरः सखा भवति ॥२॥
Subject
अथ पुनरपि परमात्मविषयमाह।
Footnote
१. ऋ० ८।९८।५, अथ० २०।६४।२।