Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1247

1875 Mantra
Devata- इन्द्रः Rishi- नृमेध आङ्गिरसः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
ए꣡न्द्र꣢ नो गधि प्रिय꣣ स꣡त्रा꣢जिदगोह्य । गि꣣रि꣢꣫र्न वि꣣श्व꣡तः꣢ पृ꣣थुः꣡ पति꣢꣯र्दि꣣वः꣢ ॥१२४७॥

आ꣢ । इ꣣न्द्र । नः । गधि । प्रिय । स꣡त्रा꣢꣯जित् । स꣡त्रा꣢꣯ । जि꣣त् । अगोह्य । अ । गोह्य । गिरिः꣢ । न । वि꣣श्व꣡तः꣢ । पृ꣣थुः꣢ । प꣡तिः꣢꣯ । दि꣣वः꣢ ॥१२४७॥

Mantra without Swara
एन्द्र नो गधि प्रिय सत्राजिदगोह्य । गिरिर्न विश्वतः पृथुः पतिर्दिवः ॥

आ । इन्द्र । नः । गधि । प्रिय । सत्राजित् । सत्रा । जित् । अगोह्य । अ । गोह्य । गिरिः । न । विश्वतः । पृथुः । पतिः । दिवः ॥१२४७॥

Samveda - Mantra Number : 1247
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (प्रिय) प्रीणयितः, (सत्राजित्) युगपत् सर्वान् शत्रून् जेतः ! [सत्रा सह जयतीति सत्राजित्।] (अगोह्यः) गोहितुमशक्य, सर्वत्र प्रकाशमान (इन्द्र) परमात्मन् ! त्वम् (नः) अस्मान् (आ गधि) आगहि आगच्छ। त्वम् (गिरिः न) मेघ इव। [गिरिः इति मेघनाम। निघं० १।१०।] (सर्वतः) विश्वतः (पृथुः) प्रख्यातः, अपि च (दिवः पतिः) द्योतमानस्य सूर्यस्य जीवात्मनो वा स्वामी असि ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
यद्यपि परमेश्वरश्चर्मचक्षुषा न दृश्यते तथापि स सूर्यवत् सर्वत्र प्रकाशितस्तृप्तिप्रदायकः सर्वविजेता सुखादीनां वृष्टिकरणान्मेघवत् प्रसिद्धिं गतः सर्वस्य जडचेतनात्मकस्य जगतोऽधिपतिश्चास्ति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३९३ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र पुनरपि स एव विषयो वर्ण्यते।
Footnote
१. ऋ० ८।९८।४, अथ० २०।६४।१, उभयत्र ‘प्रि॒यः स॑त्रा॒जिदगो॑ह्यः’ इति पाठः। साम० ३९३।