Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1246

1875 Mantra
Devata- अग्निः Rishi- उशना काव्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त्वं꣡ य꣢विष्ठ दा꣣शु꣢षो꣣ नॄ꣡ꣳपा꣢हि शृणु꣣ही꣡ गिरः꣢꣯ । र꣡क्षा꣢ तो꣣क꣢मु꣣त꣡ त्मना꣢꣯ ॥१२४६॥

त्वम् । य꣣विष्ठ । दाशु꣡षः꣢ । नॄन् । पा꣣हि । शृणुहि꣢ । गि꣡रः꣢꣯ । र꣡क्ष꣢꣯ । तो꣣क꣢म् । उ꣣त꣢ । त्म꣡ना꣢꣯ ॥१२४६॥

Mantra without Swara
त्वं यविष्ठ दाशुषो नॄꣳपाहि शृणुही गिरः । रक्षा तोकमुत त्मना ॥

त्वम् । यविष्ठ । दाशुषः । नॄन् । पाहि । शृणुहि । गिरः । रक्ष । तोकम् । उत । त्मना ॥१२४६॥

Samveda - Mantra Number : 1246
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपक्षे। हे (यविष्ठ) युवतम, तद्वच्छक्तिसम्पन्न परमात्मन् ! (त्वम् दाशुषः) आत्मसमर्पकान् (नॄन्) उपासकान् जनान् (पाहि) पालय, तेषाम् (गिरः) स्तुतिवाचः (शृणुहि) शृणु। [अत्र ‘उतश्च प्रत्ययाच्छन्दो वा वचनम्। अ० ६।४।१०६ वा०’ इत्यनेन छन्दसि हेर्लुको विकल्पविधानात् हेर्लुक् न, संहितायाम् ‘अन्येषामपि दृश्यते। अ० ६।३।१३७’ इति दीर्घः।] (उत) अपि च (त्मना) आत्मना (तोकम्) तेषां सद्विचाररूपं सन्तानम् (रक्ष) शत्रुभ्यः त्रायस्व। [संहितायां ‘नॄँ पाहि’ इत्यत्र ‘नॄन् पे’ अ० ८।३।१० इत्यनेन नकारस्य रुत्वम्। ‘अत्रानुनासिकः पूर्वस्य तु वा’ अ० ८।३।२ इत्यनेन पूर्वस्यानुनासिकः] ॥ द्वितीयः—नृपतिपक्षे। हे (यविष्ठ) अतिशयेन तरुण राजन् ! (त्वम् दाशुषः) विद्यादातॄन् धनदातॄन् वा (नॄन्) मनुष्यान् (पाहि) रक्ष, (गिरः) विदुषां वाचः (शृणुहि) शृणु, (उत) अपि च (त्मना) आत्मना (तोकम्) युद्धे मृतानां सैनिकानामपत्यम् (रक्ष) पालय ॥३॥२
Essence
जगदीश्वरः स्वोपासकान् पालयति रक्षति च। तथैव नृपतिना द्वे कर्मणी अवश्यं कर्तव्ये, एकं विदुषां पालनं तदुपदेशश्रवणं च, द्वितीयं युद्धे हतानां सैनिकानामपत्यपत्न्यादिपालनञ्च ॥३॥
Subject
अथ परमात्मानं नृपं च प्रार्थयते।
Footnote
१. ऋ० ८।८४।३, य० १३।५२, १८।७७, सर्वत्र ‘शृणुधी’ इति पाठः। २. एतद् राजपरं व्याख्यानं य० १८।७७। इत्यस्य दयानन्दभाष्यमनुसरति। य० १३।५२ इत्यस्य भाष्ये मन्त्रोऽयं तेन महर्षिणा पशुभिर्नृणां रक्षाविषये व्याख्यातः। ३. यह राजापरक व्याख्या य० १८।७७ के दयानन्दभाष्य के अनुसार है।