Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1244

1875 Mantra
Devata- अग्निः Rishi- उशना काव्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प्रे꣡ष्ठं꣢ वो꣣ अ꣡ति꣢थिꣳ स्तु꣣षे꣢ मि꣣त्र꣡मि꣢व प्रि꣣य꣢म् । अ꣢ग्ने꣣ र꣢थं꣣ न꣡ वेद्य꣢꣯म् ॥१२४४॥

प्रे꣡ष्ठ꣢꣯म् । वः꣣ । अ꣡ति꣢꣯थिम् । स्तु꣣षे꣢ । मि꣣त्र꣢म् । मि꣣ । त्र꣢म् । इ꣣व । प्रिय꣢म् । अ꣡ग्ने꣢꣯ । र꣡थ꣢꣯म् । न । वे꣡द्य꣢꣯म् ॥१२४४॥

Mantra without Swara
प्रेष्ठं वो अतिथिꣳ स्तुषे मित्रमिव प्रियम् । अग्ने रथं न वेद्यम् ॥

प्रेष्ठम् । वः । अतिथिम् । स्तुषे । मित्रम् । मि । त्रम् । इव । प्रियम् । अग्ने । रथम् । न । वेद्यम् ॥१२४४॥

Samveda - Mantra Number : 1244
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) जगन्नायक परमात्मन् राष्ट्रनायक राजन् वा ! (प्रेष्ठम्) प्रियतमम्, (अतिथिम्) अतिथिवत् सत्करणीयम्, (मित्रम् इव) सखायमिव (प्रियम्) प्रीणयितारम्, (रथं न) रथमिव (वेद्यम्) प्राप्तव्यम् (वः) त्वाम्, अहम् (स्तुषे) स्तौमि, तव गुणान् वर्णयामीत्यर्थः ॥१॥ अत्रोपमाङ्कारः ॥१॥
Essence
यथा जनाः परमात्मानं पूजयेयुस्तथा राजानमपि सत्कुर्युः। यथा च परमात्मा जनान् प्रीणयति तथा राजापि प्रजाः प्रीणयेत् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५ क्रमाङ्के परमात्मस्तुतिविषये व्याख्याता। अत्र परमात्मनृपत्योरुभयोर्विषय उच्यते।
Footnote
१. ऋ० ८।८४।१, ‘अग्ने’ इत्यत्र ‘अ॒ग्निं’ इति। साम० ५।