Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1242

1875 Mantra
Devata- पवमानः सोमः Rishi- अग्नयो धिष्ण्या ऐश्वराः Chhand- द्विपदा विराट् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
शु꣣क्रः꣡ प꣢वस्व दे꣣वे꣡भ्यः꣢ सोम दि꣣वे꣡ पृ꣢थि꣣व्यै꣡ शं च꣢꣯ प्र꣣जा꣡भ्यः꣢ ॥१२४२॥

शु꣣क्रः꣢ । प꣣वस्व । देवे꣡भ्यः꣢꣯ । सो꣣म । दिवे꣢ । पृ꣣थिव्यै꣢ । शम् । च꣣ । प्रजा꣡भ्यः꣢ । प्र꣣ । जा꣡भ्यः꣢꣯ ॥१२४२॥

Mantra without Swara
शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजाभ्यः ॥

शुक्रः । पवस्व । देवेभ्यः । सोम । दिवे । पृथिव्यै । शम् । च । प्रजाभ्यः । प्र । जाभ्यः ॥१२४२॥

Samveda - Mantra Number : 1242
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) जगत्स्रष्टः परमात्मन् ! (शुक्रः) तेजस्वी पवित्रश्च त्वम्। [शोचतिः ज्वलतिकर्मा। निघं० १।१६, शुचिर् पूतीभावे, दिवादिः। शोचति दीप्यते शुच्यति पवित्रो भवतीति वा शुक्रः। ‘ऋज्रेन्द्राग्र०’ उ० २।२९ इति रन्प्रत्ययान्तो निपातः।] (देवेभ्यः) दिव्यगुणयुक्तेभ्यो जनेभ्यः (पवस्व) तेजः पवित्रतां च प्रवाहय। (दिवे) सूर्याय (पृथिव्यै) भूलोकाय, (प्रजाभ्यः) प्रजाजनेभ्यश्च (शम्) कल्याणकरो भव ॥२॥
Essence
यथाशक्ति परमात्मगुणान् स्वात्मनि धारयित्वा वयं तेजः पवित्रतां शान्तिं च प्राप्तुं शक्नुमः ॥२॥
Subject
अथ परमात्मानं प्रार्थयते।
Footnote
१. ऋ० ९।१०९।५, ‘प्रजाभ्यः’ इत्यत्र ‘प्र॒जायै॑’ इति पाठः।