Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1241

1875 Mantra
Devata- पवमानः सोमः Rishi- अग्नयो धिष्ण्या ऐश्वराः Chhand- द्विपदा विराट् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
प꣡व꣢स्व सोम म꣣हा꣡न्त्स꣢मु꣣द्रः꣢ पि꣣ता꣢ दे꣣वा꣢नां꣣ वि꣢श्वा꣣भि꣡ धाम꣢꣯ ॥१२४१॥

प꣡व꣢꣯स्व । सो꣣म । महा꣢न् । स꣣मुद्रः꣢ । स꣣म् । उद्रः꣢ । पि꣣ता꣢ । दे꣣वा꣢ना꣡म् । वि꣡श्वा꣢꣯ । अ꣣भि꣢ । धा꣡म꣢꣯ ॥१२४१॥

Mantra without Swara
पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम ॥

पवस्व । सोम । महान् । समुद्रः । सम् । उद्रः । पिता । देवानाम् । विश्वा । अभि । धाम ॥१२४१॥

Samveda - Mantra Number : 1241
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) आनन्दरसागार परमात्मन् ! त्वम् (महान् समुद्रः) महान् मेघोऽसि, (देवानाम्) दिव्यगुणानाम् (पिता) जनकः पालकश्चासि। त्वम् (विश्वा धाम अभि) सर्वाणि हृदयधामानि अभिलक्ष्य (पवस्व) वर्ष ॥१॥ अत्र सोमे परमात्मनि मेघत्वारोपाद् रूपकालङ्कारः ॥१॥
Essence
यथा मेघो भूमौ वर्षित्वा वनस्पत्यादीन्युत्पादयति तथा परमेश्वर आनन्दवृष्ट्या दिव्यगुणान् प्रसूते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४२९ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र पुनः परमात्मविषय उच्यते।
Footnote
१. ऋ० ९।१०९।४, साम० ४२९।