Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1240

1875 Mantra
Devata- पवमानः सोमः Rishi- अम्बरीषो वार्षागिर ऋजिश्वा भारद्वाजश्च Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
प꣢रि꣣ स्य꣢ स्वा꣣नो꣡ अ꣢क्षर꣣दि꣢न्दु꣣र꣢व्ये꣣ म꣡द꣢च्युतः । धा꣢रा꣣ य꣢ ऊ꣣र्ध्वो꣡ अ꣢ध्व꣣रे꣢ भ्रा꣣जा꣡ न याति꣢꣯ गव्य꣣युः꣢ ॥१२४०॥

प꣡रि꣢꣯ । स्यः । स्वा꣣नः꣢ । अ꣣क्षरन् । इ꣡न्दुः꣢꣯ । अ꣡व्ये꣢꣯ । म꣡द꣢꣯च्युतः । म꣡द꣢꣯ । च्यु꣣तः । धा꣡रा꣢꣯ । यः । ऊ꣣र्ध्वः꣢ । अ꣣ध्वरे꣢ । भ्रा꣣जा꣢ । न । या꣡ति꣢꣯ । ग꣣व्ययुः꣢ ॥१२४०॥

Mantra without Swara
परि स्य स्वानो अक्षरदिन्दुरव्ये मदच्युतः । धारा य ऊर्ध्वो अध्वरे भ्राजा न याति गव्ययुः ॥

परि । स्यः । स्वानः । अक्षरन् । इन्दुः । अव्ये । मदच्युतः । मद । च्युतः । धारा । यः । ऊर्ध्वः । अध्वरे । भ्राजा । न । याति । गव्ययुः ॥१२४०॥

Samveda - Mantra Number : 1240
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(स्यः) सः (स्वानः) अभिषूयमाणः, (मदच्युतः) मदाय उत्साहाय च्युतः निःसृतः (इन्दुः) क्लेदकः ब्रह्मानन्दरसो ज्ञानरसो वा (अव्ये) अव्यये अविनाशिनि जीवात्मनि (परि अक्षरत्) परमात्मनः सकाशादाचार्यस्य सकाशाद् वा परिक्षरति, (यः ऊर्ध्वः) उत्कृष्टः आनन्दरसो ज्ञानरसो वा (गव्ययुः) प्रकाशप्रदानकामः इव सन् (अध्वरे) उपासनायज्ञे विद्यायज्ञे वा (भ्राजा धारा न) दीप्तया धारया इव (याति) गच्छति, प्रवहति ॥३॥ अत्रोत्प्रेक्षालङ्कारः ॥३॥
Essence
परमेश्वरोपासनायज्ञेन परमानन्दरसं विद्यायज्ञेन च ज्ञानरसं प्राप्य जना दिव्यं प्रकाशमधिगम्य कृतार्था भवन्तु ॥३॥
Subject
अथानन्दरसस्य ज्ञानरसस्य च विषयमाह।
Footnote
१. ऋ० ९।९८।३, ‘परि॒ ष्य सु॑वा॒नो अ॑क्षा॒ इन्दु॒रव्ये॒ मद॑च्युतः’ इति पूर्वार्द्धः। उत्तरार्द्धे ‘न याति’ इत्यत्र ‘नैति’।