Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 124

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣣दं꣡ व꣢सो सु꣣त꣢꣫मन्धः꣣ पि꣢बा꣣ सु꣡पू꣢र्णमु꣣द꣡र꣢म् । अ꣡ना꣢भयिन्ररि꣣मा꣡ ते꣢ ॥१२४॥

इ꣣द꣢म् । व꣣सो । सुत꣢म् । अ꣡न्धः꣢꣯ । पि꣡ब꣢꣯ । सु꣡पू꣢꣯र्णम् । सु । पू꣣र्णम् । उद꣡र꣢म् । उ꣣ । द꣡र꣢꣯म् । अ꣡ना꣢꣯भयिन् । अन् । आ꣣भयिन् । ररिम꣢ । ते꣣ ॥१२४॥

Mantra without Swara
इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् । अनाभयिन्ररिमा ते ॥

इदम् । वसो । सुतम् । अन्धः । पिब । सुपूर्णम् । सु । पूर्णम् । उदरम् । उ । दरम् । अनाभयिन् । अन् । आभयिन् । ररिम । ते ॥१२४॥

Samveda - Mantra Number : 124
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वसो) सद्गुणानां वासयितः अतिथे परमात्मन् वा, त्वम् (इदम्) एतद् अस्माभिः समर्प्यमाणम्, (सुतम्) अभिषुतम्, सज्जीकृतम् (अन्धः) अन्नं श्रद्धारसं वा। अन्धः इत्यन्ननामसु पठितम्। निघं० २।७ अदेर्नुम् धौ च उ० ४।२०७ इति अद् भक्षणे धातोः असुन् प्रत्ययो, नुमागमो, धकारादेशश्च। (सुपूर्णम् उदरम्) उदरम् सुष्ठु पूर्णं यथा स्यात् तथा (पिब) आस्वादय। संहितायाम् द्व्यचोऽतस्तिङः। अ० ६।३।१३५ इति दीर्घः। हे (अनाभयिन्२) निर्भय ! वयं (ते) तुभ्यम् (ररिम) प्रयच्छामः। रा दाने। छन्दसि लुङ्लङ्लिटः। अ० ३।४।६ इति लडर्थे लिट्। संहितायाम् अन्येषामपि दृश्यते अ० ६।३।१३७ इति दीर्घः ॥१०॥
Essence
यथा कश्चिद् विद्वानतिथिरस्माभिः प्रदीयमानमन्नरसघृतदुग्धादिकं सुपूर्णमुदरं पिबति तथैव हे परमात्मन् ! त्वमस्माभिः श्रद्धया विनिवेद्यमानं भक्तिरसं कणेहत्य पिब। अत्र अकायस्य मुखोदरादिरहितस्यापि परमेश्वरस्य विषये सुपूर्णमुदरं पिब’ इति व्याहार आलङ्कारिक एव ॥१०॥ अत्र परमात्मनः स्तुतिगानार्थं प्रेरणात्, ततः सुखप्रार्थनात्, तन्महिमवर्णनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्तीति वेदितव्यम् ॥ इति द्वितीये प्रपाठके प्रथमार्धे तृतीया दशतिः। इति द्वितीयाध्याये प्रथमः खण्डः ॥
Subject
वयं विद्वांसमतिथिं परमात्मानं चोपहारेण सत्कुर्म इत्याह।
Footnote
१. ऋ० ८।२।१, साम० ७३४। २. आ समन्ताद् बिभेति आभयी, बिभेतेरौणादिक इनिः, न आभयी अनाभयी, तादृशः—इति सा०।