Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1239

1875 Mantra
Devata- पवमानः सोमः Rishi- अम्बरीषो वार्षागिर ऋजिश्वा भारद्वाजश्च Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
व꣣यं꣡ ते꣢ अ꣣स्य꣡ राध꣢꣯सो꣣ व꣡सो꣢र्वसो पुरु꣣स्पृ꣡हः꣢ । नि꣡ नेदि꣢꣯ष्ठतमा इ꣣षः꣡ स्याम꣢꣯ सु꣣म्ने꣡ ते꣢ अध्रिगो ॥१२३९॥

व꣣य꣢म् । ते꣣ । अस्य꣢ । रा꣡ध꣢꣯सः । व꣡सोः꣢꣯ । व꣣सो । पुरुस्पृ꣡हः꣢ । पु꣣रु । स्पृ꣡हः꣢꣯ । नि । ने꣡दि꣢꣯ष्ठतमाः । इ꣣षः꣢ । स्या꣡म꣢꣯ । सु꣣म्ने꣢ । ते꣣ । अध्रिगो ॥१२३९॥

Mantra without Swara
वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः । नि नेदिष्ठतमा इषः स्याम सुम्ने ते अध्रिगो ॥

वयम् । ते । अस्य । राधसः । वसोः । वसो । पुरुस्पृहः । पुरु । स्पृहः । नि । नेदिष्ठतमाः । इषः । स्याम । सुम्ने । ते । अध्रिगो ॥१२३९॥

Samveda - Mantra Number : 1239
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वसो) वासयितः परमात्मन् नृपते आचार्य वा ! (वयम्) प्रार्थिनः (ते) तव (अस्य) एतस्य (वसोः) निवासकस्य, (पुरुस्पृहः) अतिशयस्पृहणीयस्य, (इषः) अभीष्टस्य (राधसः) आध्यात्मिकस्य ऐश्वर्यस्य, सुवर्णादिधनस्य, विद्याधनस्य वा (नि) नितराम् (नेदिष्ठतमाः) निकटतमाः (स्याम) भवेम। अपि च, हे (अध्रिगो) अधृतगमन परमात्मन् नृपते आचार्य वा ! [अध्रिगो अधृतगमन। निरु० ५।११।] वयम् (ते) तव, त्वया प्रदत्ते (सुम्ने) सुखे (स्याम) भवेम ॥२॥
Essence
परमात्मनः सकाशादाध्यात्मिकं धनम्, नृपतेः सकाशाद् भौतिकं धनम्, आचार्यसकाशाच्च विद्याधनं प्राप्य सर्वे सुखिनो भवितुमर्हन्ति ॥२॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० ९।९८।५, ‘व॒यं ते॑ अ॒स्य वृ॑त्रहन् वसो॒ वस्वः॑ पुरु॒स्पृहः॑। नि नेदि॑ष्ठतमा इ॒षः स्याम॑ सु॒म्नस्या॑ध्रिगो’ ॥ इति पाठः।