Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1238

1875 Mantra
Devata- पवमानः सोमः Rishi- अम्बरीषो वार्षागिर ऋजिश्वा भारद्वाजश्च Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
अ꣣भी꣡ नो꣢ वाज꣣सा꣡त꣢मं रयिमर्ष शतस्पृहम् । इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम् ॥१२३८॥

अ꣣भि꣢ । नः꣣ । वाजसा꣡त꣢मम् । वा꣣ज । सा꣡त꣢꣯मम् । र꣣यि꣢म् । अ꣣र्ष । शतस्पृ꣡ह꣢म् । श꣣त । स्पृ꣡ह꣢꣯म् । इ꣡न्दो꣢꣯ । स꣣ह꣡स्र꣢भर्णसम् । स꣣ह꣡स्र꣢ । भ꣣र्णसम् । तुविद्युम्न꣢म् । तु꣣वि । द्युम्न꣢म् । वि꣣भास꣡ह꣢म् । वि꣣भा । स꣡ह꣢꣯म् ॥१२३८॥

Mantra without Swara
अभी नो वाजसातमं रयिमर्ष शतस्पृहम् । इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम् ॥

अभि । नः । वाजसातमम् । वाज । सातमम् । रयिम् । अर्ष । शतस्पृहम् । शत । स्पृहम् । इन्दो । सहस्रभर्णसम् । सहस्र । भर्णसम् । तुविद्युम्नम् । तुवि । द्युम्नम् । विभासहम् । विभा । सहम् ॥१२३८॥

Samveda - Mantra Number : 1238
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) आनन्दरसेन विद्यारसेन च क्लेदक तेजस्विन् परमात्मन् नृपते आचार्य वा ! त्वम् (वाजसातमम्) अतिशयेन बलस्य प्रदातारम्, (शतस्पृहम्) अनेकशतैर्जनैः स्पृहणीयम्, (सहस्रभर्णसम्) सहस्रगुणानां धारयितारम् यद्वा सहस्रजनानां पोषयितारम्, (तुविद्युम्नम्) बहुयशस्करम्, (विभासहम्) शत्रुतेजसः अभिभवितारम् (रयिम्) अध्यात्मं धनं सुवर्णादिधनं विद्याधनं वा (नः) अस्मान् उपासकान् प्रजाजनान् छात्रान् वा (अभि अर्ष) प्रापय ॥१॥
Essence
परमेश्वराद् ब्रह्मानन्दधनं नृपतेर्हिरण्यादिधनमाचार्याच्च विद्याधनं प्राप्यैवोपासकाः प्रजाजना विद्यार्थिनश्च कृतकृत्या जायन्ते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५४९ क्रमाङ्के परमात्मानं सम्बोधिता। अत्र परमात्मा नृपतिराचार्यश्च प्रार्थ्यते।
Footnote
१. ऋ० ९।९८।१, ‘अभी, शतस्पृहम्, विभासहम्’ इत्यत्र क्रमेण ‘अ॒भि, पुरु॒स्पृह॑म्, वि॑भ्वा॒सह॑म्’ इति पाठः। साम० ५४९।