Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1237

1875 Mantra
Devata- पवमानः सोमः Rishi- निध्रुविः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣प꣡घ्नन्प꣢वसे꣣ मृ꣡धः꣢ क्रतुवित्सोम मत्सरः । नुदस्वादेवयुं जनम् ॥१२३७॥

अ꣣पघ्नन् । अ꣣प । घ्न꣢न् । प꣣वसे । मृ꣡धः꣢꣯ । क्र꣣तुवि꣢त् । क्र꣣तु । वि꣢त् । सो꣣म । मत्सरः꣢ । नु꣣द꣡स्व꣢ । अ꣡दे꣢꣯वयुम् । अ । दे꣣वयुम् । ज꣡न꣢꣯म् ॥१२३७॥

Mantra without Swara
अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः । नुदस्वादेवयुं जनम् ॥

अपघ्नन् । अप । घ्नन् । पवसे । मृधः । क्रतुवित् । क्रतु । वित् । सोम । मत्सरः । नुदस्व । अदेवयुम् । अ । देवयुम् । जनम् ॥१२३७॥

Samveda - Mantra Number : 1237
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) आनन्दरसागार परमात्मन् विद्यारसागार आचार्य वा ! (क्रतुवित्) क्रतूनां विज्ञानानां कर्मणां च लम्भकः, (मत्सरः) आनन्दप्रदः त्वम् (मृधः) हिंसावृत्तीः (अपघ्नन्) विनाशयन् (पवसे) जनानां विद्यार्थिनां वा अन्तःकरणं पुनासि। त्वम् (अदेवयुम्) अदेवकामम्, दिव्यगुणप्राप्त्यनिच्छुकम् (जनम्) मनुष्यं विद्यार्थिनं वा (नुदस्व) तत्प्राप्त्यर्थं प्रेरय ॥३॥
Essence
यथा परमेश्वरो वेदद्वारेण दिव्यगुणप्राप्तिं सन्दिश्य योगाभ्यासिभ्यो ब्रह्मानन्दं प्रदाय तान् कृतार्थान् करोति तथैव आचार्यश्छात्रान् क्रियात्मकज्ञानसहिता आध्यात्मिकीर्भौतिकीश्च विविधा विद्याः शिक्षयित्वा तेषु दिव्यगुणांश्चोत्पाद्य तान् सुयोग्यान् कुर्यात् ॥३॥
Subject
तृतीया ऋक् पूर्वार्चिके ४९२ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र युगपत् परमात्माचार्ययोरुभयोर्विषय उच्यते।
Footnote
१. ऋ० ९।६३।२४, साम० ४९२।