Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1236

1875 Mantra
Devata- पवमानः सोमः Rishi- निध्रुविः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡व꣢मान꣣ नि꣡ तो꣢शसे र꣣यि꣡ꣳ सो꣢म श्र꣣वा꣡य्य꣢म् । इ꣡न्दो꣢ समु꣣द्र꣡मा वि꣢꣯श ॥१२३६॥

प꣡व꣢꣯मान । नि । तो꣣शसे । रयि꣢म् । सो꣣म । श्रवा꣡य्य꣢म् । इ꣡न्दो꣢꣯ । स꣣मु꣢द्रम् । स꣣म् । उद्र꣢म् । आ । वि꣣श ॥१२३६॥

Mantra without Swara
पवमान नि तोशसे रयिꣳ सोम श्रवाय्यम् । इन्दो समुद्रमा विश ॥

पवमान । नि । तोशसे । रयिम् । सोम । श्रवाय्यम् । इन्दो । समुद्रम् । सम् । उद्रम् । आ । विश ॥१२३६॥

Samveda - Mantra Number : 1236
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पवमान) पवित्रताप्रदायक (सोम) रसागार परमात्मन् ! त्वम् (श्रवाय्यम्) कीर्तिजनकम्। [श्रावयतीति श्रवाय्यः। श्रुदक्षिस्पृहिगृहिभ्य आय्यः। उ० ३।९६ इत्यनेन शृणोतेः आय्य प्रत्ययः।] (रयिम्) आध्यात्मिकं भौतिकं चैश्वर्यम् (नितोशसे२) प्रयच्छसि। हे (इन्दो) उपासकानां चन्द्रवदाह्लादक परमेश ! त्वम् (समुद्रम्) जीवात्मरूपं समुद्रम् (आ विश) प्रविश ॥२॥
Essence
यथा चन्द्रः स्वाकर्षणेन समुद्रजलमुन्नयति तथा परमेश्वरश्चुम्बकीयेन स्वाकर्षणेन जीवात्मानमुन्नयति ॥२॥
Subject
अथ पुनरपि परमात्मविषयमाह।
Footnote
१. ऋ० ९।६३।२३, ‘इन्दो’ इत्यत्र ‘प्रि॒यः’ इति पाठः। २. तोशसे, तुश दाने, ददासि—इति वि०। रयिं शत्रूणां धनं नितोशसे अतितरां पीडयसि—इति सा०। निघण्टौ नितोशते इति वधकर्मसु पठितम् (निघं० २।१९)।