Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1235

1875 Mantra
Devata- पवमानः सोमः Rishi- निध्रुविः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡व꣢स्व दे꣣व꣡ आ꣢यु꣣ष꣡गिन्द्रं꣢꣯ गच्छतु ते꣣ म꣡दः꣢ । वा꣣यु꣡मा रो꣢꣯ह꣣ ध꣡र्म꣢णा ॥१२३५॥

प꣡व꣢꣯स्व । दे꣣वः꣢ । आ꣣युष꣢क् । आ꣣यु । स꣢क् । इ꣡न्द्र꣢꣯म् । ग꣣च्छतु । ते । म꣡दः꣢꣯ । वा꣣यु꣢म् । आ । रो꣣ह । ध꣡र्म꣢꣯णा ॥१२३५॥

Mantra without Swara
पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः । वायुमा रोह धर्मणा ॥

पवस्व । देवः । आयुषक् । आयु । सक् । इन्द्रम् । गच्छतु । ते । मदः । वायुम् । आ । रोह । धर्मणा ॥१२३५॥

Samveda - Mantra Number : 1235
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम ! हे रसमय परमात्मन् ! (देवः) मोददायकः त्वम् (आयुषक्) सम्पूर्णे आयुनि२ अनुषक्तं यथा स्यात्तथा, सर्वदा इत्यर्थः (पवस्व) आनन्दरसं प्रवाहय। (ते) तव (मदः) आनन्दः (इन्द्रम्) जीवात्मानम् (गच्छतु) प्राप्नोतु। त्वम् (धर्मणा) स्वकीयगुणकर्मस्वभावेन सह (वायुम्) अस्माकं गतिशीलं मनः (आ रोह) आरूढो भव, मनसि स्वप्रभावं वितनु इति भावः ॥१॥
Essence
परमेश्वरोपासकानामात्ममनोबुद्ध्यादिकं परमानन्दप्रवाहेण परिप्लुतं जायते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४८३ क्रमाङ्के परमात्मविषये व्याख्याता। अत्रापि प्रकारान्तरेण स एव विषयो निरूप्यते।
Footnote
१. ऋ० ९।६३।२२ ‘देवायुषगिन्द्रं’ इति पाठः। साम० ४८३। २. आयुशब्दो नपुंसकलिङ्गं आयुर्वाचको वेदे प्रयुक्तः, यथा ‘वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः’ साम० ५५०।