Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1234

1875 Mantra
Devata- इन्द्रः Rishi- भर्गः प्रागाथः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
त꣢꣫ꣳ हि स्व꣣रा꣡जं꣢ वृष꣣भं꣡ तमोज꣢꣯सा धि꣣ष꣡णे꣢ निष्टत꣣क्ष꣡तुः꣢ । उ꣣तो꣢प꣣मा꣡नां꣢ प्रथ꣣मो꣡ नि षी꣢꣯दसि꣣ सो꣡म꣢काम꣣ꣳ हि꣢ ꣣ते म꣡नः꣢ ॥१२३४॥

त꣢म् । हि । स्व꣣रा꣡ज꣢म् । स्व꣣ । रा꣡ज꣢꣯म् । वृ꣣षभ꣢म् । तम् । ओ꣡ज꣢꣯सा । धि꣣ष꣡णे꣣इ꣡ति꣢ । नि꣣ष्टतक्ष꣡तुः꣢ । निः꣣ । ततक्ष꣡तुः꣢ । उ꣣त꣢ । उ꣣पमा꣡ना꣢म् । उ꣣प । मा꣡ना꣢꣯म् । प्र꣣थमः꣢ । नि । सी꣣दसि । सो꣡म꣢꣯कामम् । सो꣡म꣢꣯ । का꣣मम् । हि꣢ । ते꣣ । म꣡नः꣢꣯ ॥१२३४॥

Mantra without Swara
तꣳ हि स्वराजं वृषभं तमोजसा धिषणे निष्टतक्षतुः । उतोपमानां प्रथमो नि षीदसि सोमकामꣳ हि ते मनः ॥

तम् । हि । स्वराजम् । स्व । राजम् । वृषभम् । तम् । ओजसा । धिषणेइति । निष्टतक्षतुः । निः । ततक्षतुः । उत । उपमानाम् । उप । मानाम् । प्रथमः । नि । सीदसि । सोमकामम् । सोम । कामम् । हि । ते । मनः ॥१२३४॥

Samveda - Mantra Number : 1234
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(तं हि स्वराजम्) तं खलु विद्यायाः सूर्यम् आचार्यम्, (तं वृषभम्) तं विद्यावर्षकम् आचार्यम् (धिषणे) विद्या वाक् च। [विद्या वै धिषणा तै० सं० ५।१।७।२, धिषणा वाग्, धिषेर्दधात्यर्थे, धीसादिनीति वा धीसानिनीति वा। निरु० ८।३।] (ओजसा) तेजसा (निष्टतक्षतुः) संस्कृतवत्यौ। [निरित्येष समित्येतस्य स्थाने। निरु० १२।७।] अथ प्रत्यक्षकृतमाह—(उत) अपि च, हे आचार्यवर ! त्वम् (उपमानाम्) उपमानानां मध्ये (प्रथमः) श्रेष्ठः सन् (निषीदसि) निषण्णोऽसि। (ते मनः) तव मानसम् (सोमकामं हि) ज्ञानरसप्रदानेच्छुकं किल विद्यते ॥२॥
Essence
स एवाचार्यः श्रेष्ठो यस्य विद्यावैभवं वाग्वैभवं चोभयमप्युत्कृष्टम् ॥२॥ अस्मिन् खण्डे परमात्मन आचार्यस्योपासनायज्ञस्यानन्दरसस्य प्रसङ्गतो नृपतेश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥
Subject
अथ पुनरप्याचार्यो वर्ण्यते।
Footnote
१. ऋ० ८।६१।२, अथ० २०।११३।२, उभयत्र ‘तमोजसे’ इति भेदः।