Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1233

1875 Mantra
Devata- इन्द्रः Rishi- भर्गः प्रागाथः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
उ꣣भ꣡य꣢ꣳ शृ꣣ण꣡व꣢च्च न꣣ इ꣡न्द्रो꣢ अ꣣र्वा꣢गि꣣दं꣡ वचः꣢꣯ । स꣣त्रा꣡च्या꣢ म꣣घ꣢वा꣣न्त्सो꣡म꣢पीतये धि꣣या꣡ शवि꣢꣯ष्ठ꣣ आ꣡ गम꣢त् ॥१२३३॥

उ꣣भ꣡य꣢म् । शृ꣣ण꣡व꣢त् । च꣣ । नः । इ꣡न्द्रः꣢꣯ । अ꣣र्वा꣢क् । इ꣣द꣢म् । व꣡चः꣢꣯ । स꣣त्रा꣡च्या꣢ । स꣣त्रा꣢ । च्या꣣ । मघ꣡वा꣢न् । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये । धिया꣢ । श꣡वि꣢꣯ष्ठ । आ । ग꣣मत् ॥१२३३॥

Mantra without Swara
उभयꣳ शृणवच्च न इन्द्रो अर्वागिदं वचः । सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ॥

उभयम् । शृणवत् । च । नः । इन्द्रः । अर्वाक् । इदम् । वचः । सत्राच्या । सत्रा । च्या । मघवान् । सोमपीतये । सोम । पीतये । धिया । शविष्ठ । आ । गमत् ॥१२३३॥

Samveda - Mantra Number : 1233
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रः) विद्यैश्वर्यवान् आचार्यः (नः अर्वाक्) अस्मदभिमुखं भूत्वा (इदम्) एतद् अस्माभिः (श्राव्यमाणम् उभयं वचः) पद्यात्मकं गद्यात्मकं चोभयविधम् अध्यापितं शास्त्रवचनसमूहम् (शृणवत्) शृणुयात्। [शृणोतेर्लेटि रूपम्।] (मघवान्) विद्यादानवान्, (शविष्ठः) विद्यया चरित्रेण च बलवत्तमः स आचार्यः (सत्राच्या) सत्यानुगामिन्या (धिया) बुद्ध्या क्रियया च (सोमपीतये) अस्माकं ज्ञानरसपानाय ब्रह्मानन्दरसपानाय च (आ गमत्) अस्मान् आगच्छेत् ॥१॥
Essence
गुरुभिः प्रेम्णा छात्रा अध्यापनीयाः प्रत्यहमध्यापितश्च पाठ आगामिदिवसे श्रोतव्यो येन छात्रैः स स्मृतो न वेति परीक्षा स्यात्। ते शिक्षितानां योगाङ्गानामपि समये समये परीक्षां कुर्युर्येन छात्राः समाधौ ब्रह्मानन्दप्राप्तियोग्या भवेयुः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २९० क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्राचार्यविषय उच्यते।
Footnote
१. ऋ० ८।६१।१, अथ० २०।११३।१, उभयत्र ‘म॒घवा॒ सोम॑पीतये’ इति पाठः। साम० २९०।