Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1231

1875 Mantra
Devata- इन्द्रः Rishi- देवातिथिः काण्वः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
य꣡दि꣢न्द्र꣣ प्रा꣢꣫गपा꣣गु꣢दङ्न्य꣣꣬ग्वा꣢꣯ हू꣣य꣢से꣣ नृ꣡भिः꣢ । सि꣡मा꣢ पु꣣रू꣡ नृषू꣢꣯तो अ꣣स्या꣢न꣣वे꣡ऽसि꣢ प्रशर्ध तु꣣र्व꣡शे꣢ ॥१२३१॥

य꣢त् । इ꣣न्द्र । प्रा꣢क् । अ꣡पा꣢꣯क् । अ꣡प꣢꣯ । अ꣣क् । उ꣡द꣢꣯क् । उत् । अ꣣क् । न्य꣡क्꣢ । नि । अ꣣क् । वा । हूय꣡से꣢ । नृ꣡भिः꣢꣯ । सि꣡म꣢꣯ । पु꣣रु꣢ । नृ꣡षू꣢꣯तः । नृ । सू꣣तः । असि । आ꣡न꣢꣯वे । अ꣡सि꣢꣯ । प्र꣢शर्ध । प्र । शर्ध । तु꣡र्व꣢शे ॥१२३१॥

Mantra without Swara
यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः । सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥

यत् । इन्द्र । प्राक् । अपाक् । अप । अक् । उदक् । उत् । अक् । न्यक् । नि । अक् । वा । हूयसे । नृभिः । सिम । पुरु । नृषूतः । नृ । सूतः । असि । आनवे । असि । प्रशर्ध । प्र । शर्ध । तुर्वशे ॥१२३१॥

Samveda - Mantra Number : 1231
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यत्) यस्मात्, हे (इन्द्र) परमैश्वर्यवन् शत्रुविदारक परमात्मन् राजन् वा ! त्वम् (प्राक्) पूर्वस्यां दिशि, (अपाक्) पश्चिमायां दिशि, (उदक्) उत्तरस्यां दिशि (न्यक् वा) दक्षिणस्यां दिशि च (नृभिः) पुरुषार्थिभिः जनैः (हूयसे) भक्तिप्रदानेन करादिप्रदानेन वा सत्क्रियसे, तत् तस्मात् (नृषूतः) नृभिः उपासकैर्जनैः प्रजाजनैर्वा सूतः प्रेरितः त्वम् (सिमा) सर्वत्र (पुरु) बहु (आनवे) अनवः मनुष्याः तेषां समूहः आनवः तस्मिन् मानवसमाजे (असि) उपकर्ता भवसि। हे (प्रशर्ध) प्रकर्षेण शत्रून् धर्षयितः परमात्मन् राजन् वा ! त्वम् (तुर्वशे) तुर्वन्ति हिंसन्तीति तुरः तेषां वशङ्करे वीरजने (असि) सहायको भवसि ॥१॥
Essence
यथा जगदीश्वरः सर्वेषां धार्मिकाणां जनानां सहायको रक्षकश्च जायते तथैव नृपतेरिदं कर्त्तव्यं यत् स सर्वेषां राज्याधिकारिणां प्रजाजनानां च सहायको रक्षकश्च भवेत् ॥१॥ अत्र सायणाचार्यस्य “आनवे अनुर्नाम राजा तस्य पुत्रे राजर्षौ, तुर्वशे एतत्संज्ञके राजनि” इति व्याख्यानं न संगच्छते कल्पनाप्रसूतत्वाद् योगार्थशैलीविरुद्धत्वाच्च ॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २७९ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र परमात्मनृपत्योरुभयोर्विषय उच्यते।
Footnote
१. ऋ० ८।४।१, अथ० २०।१२०।१, साम० २७९।