Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1230

1875 Mantra
Devata- पवमानः सोमः Rishi- कविर्भार्गवः Chhand- जगती Swara- निषादः
Mantra with Swara
इ꣡न्द्र꣢स्य सोम꣣ प꣡व꣢मान ऊ꣣र्मि꣡णा꣢ तवि꣣ष्य꣡मा꣢णो ज꣣ठ꣢रे꣣ष्वा꣡ वि꣢श । प्र꣡ नः꣢ पिन्व वि꣣द्यु꣢द꣣भ्रे꣢व꣣ रो꣡द꣢सी धि꣣या꣢ नो꣣ वा꣢जा꣣ꣳ उ꣡प꣢ माहि꣣ श꣡श्व꣢तः ॥१२३०॥

इ꣡न्द्र꣢꣯स्य । सो꣣म । प꣡वमा꣢꣯नः । ऊ꣣र्मि꣡णा꣢ । त꣣विष्य꣡मा꣢णः । ज꣣ठ꣡रे꣢षु । आ । वि꣣श । प्र꣢ । नः꣣ । पिन्व । विद्यु꣢त् । वि꣣ । द्यु꣢त् । अ꣣भ्रा꣢ । इ꣣व । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । धि꣣या꣢ । नः꣣ । वा꣡जा꣢꣯न् । उ꣡प꣢꣯ । मा꣣हि । श꣡श्व꣢꣯तः ॥१२३०॥

Mantra without Swara
इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश । प्र नः पिन्व विद्युदभ्रेव रोदसी धिया नो वाजाꣳ उप माहि शश्वतः ॥

इन्द्रस्य । सोम । पवमानः । ऊर्मिणा । तविष्यमाणः । जठरेषु । आ । विश । प्र । नः । पिन्व । विद्युत् । वि । द्युत् । अभ्रा । इव । रोदसीइति । धिया । नः । वाजान् । उप । माहि । शश्वतः ॥१२३०॥

Samveda - Mantra Number : 1230
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) रसागार परमात्मन् ! (ऊर्मिणा) आनन्दतरङ्गेण (पवमानः) प्रवहन् (तविष्यमाणः२) वर्द्धयिष्यमाणः त्वम् (इन्द्रस्य) जीवात्मनः (जठरेषु) अभ्यन्तरम् (आविश) प्रविश। त्वम् (नः) अस्मभ्यम् (रोदसी) द्यावापृथिव्यौ इव वाग्बुद्धी (प्र पिन्व) प्रधुक्ष्व, तयोर्लाभान् प्रापयेत्यर्थः। कथमिव ? (विद्युत् अभ्रा इव) तडित् अभ्राणि यथा दोग्धि तद्वत्। (धिया) बुद्ध्या कर्मणा च (नः) अस्मभ्यम् (शश्वतः) बहून्। [शश्वदिति बहुनामधेयम्। निघं० ३।१।] (वाजान्) बलविज्ञानैश्वर्यादीन् (उपमाहि) उपहर। [माङ् माने शब्दे च, अदादिः] ॥३॥
Essence
उपासनारूपेण कर्तव्यपालनेन प्रीतः परमेश्वरो जीवात्मानमानन्दतरङ्गेषु स्नपयित्वा कृतार्थं करोति सर्वविधां च सम्पदमुपहरति ॥३॥
Subject
अथ परमेश्वरः प्रार्थ्यते।
Footnote
१. ऋ० ९।७६।३, ‘नः’ इत्यत्र ‘णः॑’। ‘धि॒या न वाजाँ॒ उप॑ मासि॒ शश्व॑तः’ इति च तुरीयः पादः। २. तविष्यमाणः वर्द्धिष्यमाणः—इति सा०। स्तूयमानः—इति वि०।