Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1228

1875 Mantra
Devata- पवमानः सोमः Rishi- कविर्भार्गवः Chhand- जगती Swara- निषादः
Mantra with Swara
ध꣣र्ता꣢ दि꣣वः꣡ प꣢वते꣣ कृ꣢त्व्यो꣣ र꣢सो꣣ द꣡क्षो꣢ दे꣣वा꣡ना꣢मनु꣣मा꣢द्यो꣣ नृ꣡भिः꣢ । ह꣡रिः꣢ सृजा꣣नो꣢꣫ अत्यो꣣ न꣡ सत्व꣢꣯भि꣣र्वृ꣢था꣣ पा꣡जा꣢ꣳसि कृणुषे न꣣दी꣢ष्वा ॥१२२८॥

ध꣣र्ता꣢ । दि꣣वः꣢ । प꣣वते । कृ꣡त्व्यः꣢꣯ । र꣡सः꣢꣯ । द꣡क्षः꣢꣯ । दे꣣वा꣡ना꣢म् । अ꣣नुमा꣡द्यः꣢ । अ꣣नु । मा꣡द्यः꣢꣯ । नृ꣡भिः꣢꣯ । ह꣡रिः꣢꣯ । सृ꣣जानः꣢ । अ꣡त्यः꣢꣯ । न । स꣡त्व꣢꣯भिः । वृ꣡था꣢꣯ । पा꣡जा꣢꣯ꣳसि । कृणुषे । नदीषु । आ ॥१२२८॥

Mantra without Swara
धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः । हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजाꣳसि कृणुषे नदीष्वा ॥

धर्ता । दिवः । पवते । कृत्व्यः । रसः । दक्षः । देवानाम् । अनुमाद्यः । अनु । माद्यः । नृभिः । हरिः । सृजानः । अत्यः । न । सत्वभिः । वृथा । पाजाꣳसि । कृणुषे । नदीषु । आ ॥१२२८॥

Samveda - Mantra Number : 1228
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(दिवः) कर्तव्याकर्तव्यप्रकाशस्य (धर्ता) दाता, (कृत्व्यः) कर्मपरायणः, (रसः) रसवान्, (देवानाम्) प्रकाशकानां सूर्यचन्द्रवह्निविद्युन्नक्षत्रादीनाम् (दक्षः) बलप्रदः, (नृभिः) मनुष्यैः (अनुमाद्यः) आराधनीयः सोमः परमेश्वरः (पवते) सर्वं जडचेतनात्मकं जगत् पुनाति। अथ प्रत्यक्षकृतमाह—(हरिः) सूर्यकिरणैः समुद्रस्थजलानां हर्ता त्वम् हे परमात्मन् ! (सत्त्वभिः) स्वकीयैः बलैः (सृजानः) मेघेभ्यो वृष्टिं विसृजन् (नदीषु) सरित्सु (वृथा) अनायासम् (पाजांसि) बलानि वेगान् वा। [पाजः इति बलनाम। निघं० २।९। पा धातोः ‘पातेर्बले जुट् च। उ० ४।२०४’ इत्यनेन बलेऽर्थे असुन् प्रत्ययो जुडागमश्च।] (कृणुषे) करोषि, उत्पादयसि, (सृजानः अत्यः न) सृज्यमानः अश्वो यथा रथादौ वेगान् करोति तद्वत् ॥१॥ अत्र श्लिष्टोपमालङ्कारः ॥१॥
Essence
जडचेतनात्मके जगति यत्किञ्चिद् बलवेगविवेकप्रकाशादिकं विद्यते तत्सर्वं परमात्मजनितमेव ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५५८ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र पुनरपि स एव विषयः प्रदर्श्यते।
Footnote
१. ऋ० ९।७६।१, ‘कृणुषे’ इत्यत्र ‘कृणुते’। साम० ५५८।