Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1227

1875 Mantra
Devata- पवमानः सोमः Rishi- उचथ्य आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
दि꣣वः꣢ पी꣣यू꣡ष꣢मुत्त꣣म꣢꣫ꣳ सोम꣣मि꣡न्द्रा꣢य व꣣ज्रि꣡णे꣢ । सु꣣नो꣢ता꣣ म꣡धु꣢मत्तमम् ॥१२२७॥

दि꣣वः꣢ । पी꣣यू꣡ष꣢म् । उ꣣त्तम꣢म् । सो꣡म꣢꣯म् । इ꣡न्द्रा꣢꣯य । व꣣ज्रि꣡णे꣢ । सु꣣नो꣡त꣢ । म꣡धु꣢꣯मत्तमम् ॥१२२७॥

Mantra without Swara
दिवः पीयूषमुत्तमꣳ सोममिन्द्राय वज्रिणे । सुनोता मधुमत्तमम् ॥

दिवः । पीयूषम् । उत्तमम् । सोमम् । इन्द्राय । वज्रिणे । सुनोत । मधुमत्तमम् ॥१२२७॥

Samveda - Mantra Number : 1227
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे उपासकाः ! यूयम् (दिवः) द्युतिमतः परमात्मनः सकाशात् (पीयूषम्) अमृतरूपम्, (उत्तमम्) सर्वोत्कृष्टम्, (मधुमत्तमम्) अतिशयेन मधुरम् (सोमम्) आनन्दरसम् (वज्रिणे इन्द्राय) वीराय जीवात्मने। [वीर्यं वै वज्रः। श० ७।३।१।१९।] (सुनोत) सुनुत। [तप्तनप्तनथनाश्च। अ० ७।१।४५ इति तस्य तबादेशः, पित्वात् ङित्वाभावेन गुणनिषेधो न] ॥३॥
Essence
अमृतरूपस्य मधुरमधुरस्य ब्रह्मानन्दस्य महिमानं ज्ञात्वा कस्तं नाकाङ्क्षेत् ॥३॥
Subject
अथ पुनरप्यानन्दरसविषय उच्यते।
Footnote
१. ऋ० ९।५१।२।