Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1226

1875 Mantra
Devata- पवमानः सोमः Rishi- उचथ्य आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त꣢व꣣ त्य꣡ इ꣢न्दो꣣ अ꣡न्ध꣢सो दे꣣वा꣢꣫ मधो꣣꣬र्व्या꣢꣯शत । प꣡व꣢मानस्य म꣣रु꣡तः꣢ ॥१२२६॥

त꣡व꣢꣯ । त्ये । इ꣣न्दो । अ꣡न्ध꣢꣯सः । दे꣣वाः꣢ । म꣡धोः꣢꣯ । वि । आ꣣शत । प꣡व꣢꣯मानस्य । म꣣रु꣡तः꣢ ॥१२२६॥

Mantra without Swara
तव त्य इन्दो अन्धसो देवा मधोर्व्याशत । पवमानस्य मरुतः ॥

तव । त्ये । इन्दो । अन्धसः । देवाः । मधोः । वि । आशत । पवमानस्य । मरुतः ॥१२२६॥

Samveda - Mantra Number : 1226
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) आनन्दरसेन क्लेदक परमात्मन् ! (तव) त्वदीयस्य (मधोः) मधुरस्य, (पवमानस्य) पवित्रीकुर्वाणस्य (अन्धसः) आनन्दरसस्य। [द्वितीयार्थे षष्ठी।] (त्ये) ते (मरुतः) प्रशस्तप्राणाः (देवाः) दिव्यगुणा विद्वांसः (व्याशत) व्यश्नुवते, उपयुञ्जते। [विपूर्वः अशू व्याप्तौ, लडर्थे लुङि प्रथमपुरुषस्य बहुवचने रूपम्] ॥२॥
Essence
प्राणायामादिना योगाभ्यासेन दग्धसकलकल्मषा विद्वांस एव जना ब्रह्मानन्दरसस्याधिकारिणो जायन्ते ॥२॥
Subject
अथान्दरसविषयमाह।
Footnote
१. ऋ० ९।५१।३, ‘मधो॒र्व्य॑श्नते’ इति पाठः।