Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1224

1875 Mantra
Devata- इन्द्रः Rishi- सुकक्ष आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
गि꣣रा꣢꣫ वज्रो꣣ न꣡ सम्भृ꣢꣯तः꣣ स꣡ब꣢लो꣣ अ꣡न꣢पच्युतः । व꣣व꣢क्ष उ꣣ग्रो꣡ अस्तृ꣢꣯तः ॥१२२४॥

गि꣣रा꣢ । व꣡ज्रः꣢꣯ । न । स꣡म्भृ꣢꣯तः । सम् । भृ꣣तः । स꣡ब꣢꣯लः । स । ब꣣लः । अ꣡न꣢꣯पच्युतः । अन् । अ꣣पच्युतः । ववक्षे꣢ । उ꣣ग्रः꣢ । अ꣡स्तृ꣢꣯तः । अ । स्तृ꣣तः ॥१२२४॥

Mantra without Swara
गिरा वज्रो न सम्भृतः सबलो अनपच्युतः । ववक्ष उग्रो अस्तृतः ॥

गिरा । वज्रः । न । सम्भृतः । सम् । भृतः । सबलः । स । बलः । अनपच्युतः । अन् । अपच्युतः । ववक्षे । उग्रः । अस्तृतः । अ । स्तृतः ॥१२२४॥

Samveda - Mantra Number : 1224
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(गिरा) निर्घोषेण (वज्रः न) कुलिशः इव (गिरा) वेदवाचा प्रभावशालिन्या वा वाचा (सम्भृतः) संयुक्तः (सबलः) बलवान्, (अनपच्युतः) अविचलितः, (उग्रः) प्रचण्डः, (अस्तृतः) अहिंसितः इन्द्रः परमेश्वरो जीवात्मा नृपतिर्वा (ववक्षे) जगद्भारं देहभारं राष्ट्रभारं वा वहति। [वह प्रापणे, लडर्थे लिटि छान्दसः सुगागमः] ॥३॥ अत्रोपमालङ्कारः ॥३॥
Essence
यस्य वाचां प्रभावो वज्रनिर्घोषवद् भवति स बलिनां बली, दुष्टेषु प्रचण्डः, केनाप्यजय्यः, परेषां पराजेता परमेश्वरो जीवात्मा राजा च योऽस्ति तं सहायं प्राप्य सर्वे जीवनसङ्ग्रामे विजयिनो जायन्ताम् ॥३॥ अस्मिन् खण्डे पुरोहितस्य, विदुषः स्नातकस्य, परमात्मजीवात्मनृपतीनां च विषयस्य वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
१. ऋ० ८।९३।९, अथ० २०।४७।३, १३७।१४। सर्वत्र ‘उग्रो’ इत्यत्र ‘ऋ॒ष्वो’ इति पाठः।