Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1223

1875 Mantra
Devata- इन्द्रः Rishi- सुकक्ष आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣢न्द्रः꣣ स꣡ दाम꣢꣯ने कृ꣣त꣡ ओजि꣢꣯ष्ठः꣣ स꣡ बले꣢꣯ हि꣣तः꣢ । द्यु꣣म्नी꣢ श्लो꣣की꣢꣫ स सो꣣म्यः꣢ ॥१२२३॥

इ꣡न्द्रः꣢꣯ । सः । दा꣡म꣢꣯ने । कृ꣣तः꣢ । ओ꣡जि꣢꣯ष्ठः । सः । ब꣡ले꣢꣯ । हि꣣तः꣢ । द्यु꣣म्नी꣢ । श्लो꣣की꣢ । सः । सो꣣म्यः꣢ ॥१२२३॥

Mantra without Swara
इन्द्रः स दामने कृत ओजिष्ठः स बले हितः । द्युम्नी श्लोकी स सोम्यः ॥

इन्द्रः । सः । दामने । कृतः । ओजिष्ठः । सः । बले । हितः । द्युम्नी । श्लोकी । सः । सोम्यः ॥१२२३॥

Samveda - Mantra Number : 1223
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सः इन्द्रः) असौ परमेश्वरो जीवात्मा नृपतिर्वा (दामने) दानाय। [ददातेः ‘सर्वधातुभ्यो मनिन् उ० ४।१४६’ इत्यनेन मनिन्।] (कृतः) प्रेरितो भवतु। (ओजिष्ठः) ओजस्वितमः (सः) असौ, (बले) बले प्राप्तव्ये (हितः) अस्माकं हितकरो भवतु। (सः) असौ (द्युम्नी) तेजस्वी, (श्लोकी२) यशस्वी, (सोम्यः) शान्तिसम्पादकश्च अस्ति भवतु वा। [सोमाय शान्त्यै साधुः सोम्यः] ॥२॥
Essence
परमेश्वरं प्रार्थयित्वा, जीवात्मानमुत्साह्य, राजानं चोद्बोध्य वयं लब्धदाना बलिनस्तेजस्विनो यशस्विनः शान्तियुक्ताश्च भवेम ॥२॥
Subject
अथ परमात्मजीवात्मनृपतिविषय उच्यते।
Footnote
१. ऋ० ८।९३।८, अथ० २०।४७।२, १३७।१३। सर्वत्र ‘बले’ इत्यत्र ‘मदे॑’ इति पाठः ॥ २. श्लोकी श्लोकः स्तुतिः तद्वान्—इति सा०। श्लोकैर्मन्त्रैर्योऽतिशयो गीयते स श्लोकी—इति वि०।