Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1222

1875 Mantra
Devata- इन्द्रः Rishi- सुकक्ष आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त꣡मिन्द्रं꣢꣯ वाजयामसि म꣣हे꣢ वृ꣣त्रा꣢य꣣ ह꣡न्त꣢वे । स꣡ वृषा꣢꣯ वृष꣣भो꣡ भु꣢वत् ॥१२२२॥

त꣢म् । इ꣡न्द्र꣢꣯म् । वा꣣जयामसि । महे꣢ । वृ꣣त्रा꣡य꣢ । ह꣡न्त꣢꣯वे । सः꣣ । वृ꣡षा꣢꣯ । वृ꣣षभः꣡ । भु꣣वत् ॥१२२२॥

Mantra without Swara
तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे । स वृषा वृषभो भुवत् ॥

तम् । इन्द्रम् । वाजयामसि । महे । वृत्राय । हन्तवे । सः । वृषा । वृषभः । भुवत् ॥१२२२॥

Samveda - Mantra Number : 1222
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(महे) महते, (वृत्राय) विघ्नविद्रोहोपद्रवपापादिरूपाय शत्रवे। [द्वितीयार्थे चतुर्थी।] (हन्तवे) हन्तुम् (तम्) स्वदेहेऽधिष्ठातृत्वेन विद्यमानम् (इन्द्रम्) रिपुविदारकं जीवात्मानम् (वाजयामसि) बलिनं कुर्मः। (वृषा) बलवान् (सः) असौ जीवात्मा (वृषभः) सुखसम्पद्वर्षकः (भुवत्) भवतु ॥१॥
Essence
स्वकीयमन्तरात्मानमुत्साह्य सर्वेऽपि बाह्या आभ्यन्तराश्च शत्रवो जेतुं शक्यन्ते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ११९ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र जीवात्मविषय उच्यते।
Footnote
१. ऋ० ८।९३।७, अथ० २०।४७।१, १३७।१२। साम० ११९, ऋषिः श्रुतकक्षः।