Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1221

1875 Mantra
Devata- अग्निः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
उ꣡द्यस्य꣢꣯ ते꣣ न꣡व꣢जातस्य꣣ वृ꣢꣫ष्णोऽग्ने꣣ च꣡र꣢न्त्य꣣ज꣡रा꣢ इधा꣣नाः꣢ । अ꣢च्छा꣣ द्या꣡म꣢रु꣣षो꣢ धू꣣म꣡ ए꣢षि꣣ सं꣢ दू꣣तो꣡ अ꣢ग्न꣣ ई꣡य꣢से꣣ हि꣢ दे꣣वा꣢न् ॥१२२१॥

उ꣢त् । य꣡स्य꣢꣯ । ते꣣ । न꣡व꣢꣯जातस्य । न꣡व꣢꣯ । जा꣣तस्य । वृ꣡ष्णः꣢꣯ । अ꣡ग्ने꣢꣯ । च꣡र꣢꣯न्ति । अ꣣ज꣡राः꣢ । अ꣣ । ज꣡राः꣢꣯ । इ꣣धानाः꣢ । अ꣡च्छ꣢꣯ । द्याम् । अ꣣रुषः꣢ । धू꣣मः꣢ । ए꣣षि । स꣢म् । दू꣣तः꣢ । अ꣣ग्ने । ई꣡य꣢꣯से । हि । दे꣣वा꣢न् ॥१२२१॥

Mantra without Swara
उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः । अच्छा द्यामरुषो धूम एषि सं दूतो अग्न ईयसे हि देवान् ॥

उत् । यस्य । ते । नवजातस्य । नव । जातस्य । वृष्णः । अग्ने । चरन्ति । अजराः । अ । जराः । इधानाः । अच्छ । द्याम् । अरुषः । धूमः । एषि । सम् । दूतः । अग्ने । ईयसे । हि । देवान् ॥१२२१॥

Samveda - Mantra Number : 1221
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रनेतः विद्वन् ! (यस्य) नवजातस्य नवस्नातकस्य, (वृष्णः) विद्यासुखादिवर्षकस्य (ते) तव (अजराः) अजीर्णाः, (इधानाः) जाज्वल्यमाना दीप्तयः (उत् चरन्ति) उद्गच्छन्ति, सः (अरुषः) आरोचमानः (धूमः) अविद्याभ्रष्टाचारादीनां प्रकम्पकः त्वम्। [धूनोति कम्पयतीति धूमः। धूञ् कम्पने, इत्यस्माद् ‘इषियुधीन्धिदसिश्याधूसूभ्यो मक्’ उ० १।१४५ इति मक् प्रत्ययः।] (द्याम् अच्छ) विद्यादिप्रकाशम् अभिलक्ष्य (एषि) गच्छसि, कार्यं करोषि। हे (अग्ने) विद्वन् ! (दूतः) दूत इवाचरन् त्वम् (देवान्) प्रजाजनान् (सम् ईयसे हि) संगच्छसे खलु ॥३॥२
Essence
नवस्नातको गुरुकुलाद् बहिर्गत्वा स्वकीयं तेजःप्रभावं विस्तार्याज्ञानकदाचारादीन् प्रकम्प्य जनसमाजमुन्नयेत् ॥३॥
Subject
अथ पुनरपि विद्वद्विषयमाह।
Footnote
१. ऋ० ७।३।३, ‘एषि’ इत्यत्र ‘ए॑ति॒’। २. एतमपि मन्त्रमृग्भाष्ये दयानन्दर्षिर्विद्युत्पक्षे व्याचष्टे।