Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 122

1875 Mantra
Devata- इन्द्रः Rishi- गोषूक्त्यश्वसूक्तिनौ काण्वायनौ Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣡दि꣢न्द्रा꣣हं꣢꣫ यथा꣣ त्व꣡मीशी꣢꣯य꣣ व꣢स्व꣣ ए꣢क꣣ इ꣢त् । स्तो꣣ता꣢ मे꣣ गो꣡स꣢खा स्यात् ॥१२२॥

य꣢त् । इ꣣न्द्र । अह꣢म् । य꣡था꣢꣯ । त्वम् । ई꣡शी꣢꣯य । व꣡स्वः꣢꣯ । ए꣡कः꣢ । इत् । स्तो꣣ता꣢ । मे꣣ । गो꣡सखा꣢꣯ । गो । स꣣खा । स्यात् ॥१२२॥

Mantra without Swara
यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् । स्तोता मे गोसखा स्यात् ॥

यत् । इन्द्र । अहम् । यथा । त्वम् । ईशीय । वस्वः । एकः । इत् । स्तोता । मे । गोसखा । गो । सखा । स्यात् ॥१२२॥

Samveda - Mantra Number : 122
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यत्) यदि (इन्द्र) हे परमेश्वर ! (अहम्) त्वदुपासकः (यथा त्वम्) त्वमिव (वस्वः) वसुनः विद्याधनस्य भौतिकधनस्य वा। वसुनः इत्येतस्य स्थाने लिङ्गव्यत्ययेन वसोः इति प्राप्ते जसादिषु छन्दसि वावचनं प्राङ् णौ चङ्युपधाया ह्रस्वः। अ० ७।३।१०९ वा० इति ‘घेर्ङिति।’ अ० ७।३।११ इत्यनेन प्राप्तस्य गुणस्य विकल्पनात्तदभावे यणादेशः। (एकः इत्) अद्वितीय एव (ईशीय) अधीश्वरो भवेयम्, तत् तर्हि (मे) मम (स्तोता) प्रशंसकः शिष्यः सेवको वा (गोसखा) गोभिः वेदवाग्भिः सहितः पण्डितः, गवादिधनेन वा सहितो धनिकः (स्यात्) भूयात् ॥८॥२
Essence
परमेश्वरः सम्पूर्णस्य विद्याधनस्य भौतिकधनस्य च एक एव परमाधीश्वरोऽस्ति, स च स्वकीयं विद्याधनं वेदरूपेण, भौतिकधनं च सुवर्णरजतसूर्यपवनजलफलमूलादिरूपेणास्मभ्यं प्रायच्छत्। तथैव यद्यहमपि परमेश्वरकृपया विद्यादिधनस्य भौतिकधनस्य चाधीश्वरो भवेयं, तर्हि अहमपि नूनं स्वप्रशंसकान् शिष्यान् विद्यादानेन वेदादिसच्छास्त्रनिष्णातान्, सेवकाँश्च धनदानेन धेन्वाद्यैश्वर्यसम्पन्नान् परमधनिकान् कुर्याम् ॥८॥
Subject
इन्द्रवद् यद्यहमपि धनाधीशो भवेयं तदा किं कुर्यामित्युच्यते।
Footnote
१. ऋ० ८।१४।१, अथ० २०।२७।१, उभयत्र गोषखा इति पाठः। साम० १८३४। २. इयमृक् प्रदाने विलम्बमानम् इन्द्रं प्रति उच्यते—इति भ०। त्वं तु स्तोत्रे मह्यं गवादिप्रदाने विलम्बसे, अहं चेत् त्वमिव धनाधीश्वरो भवेयं तर्हि सद्य एव स्वस्तोतारं गोसखं कुर्यामिति तदीयं तात्पर्यं बोध्यम्।