Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1219

1875 Mantra
Devata- अग्निः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ꣣ग्निं꣡ वो꣢ दे꣣व꣢म꣣ग्नि꣡भिः꣢ स꣣जो꣢षा꣣ य꣡जि꣢ष्ठं दू꣣त꣡म꣢ध्व꣣रे꣡ कृ꣢णुध्वम् । यो꣡ मर्त्ये꣢꣯षु꣣ नि꣡ध्रु꣢विरृ꣣ता꣢वा꣣ त꣡पु꣢र्मूर्धा घृ꣣ता꣡न्नः꣢ पाव꣣कः꣢ ॥१२१९॥

अ꣡ग्नि꣢म् । वः꣣ । देव꣢म् । अ꣣ग्नि꣡भिः꣢ । स꣣जो꣡षाः꣢ । स꣣ । जो꣣षाः꣢꣯ । य꣡जि꣢꣯ष्ठम् । दू꣣त꣢म् । अ꣣ध्वरे꣢ । कृ꣣णुध्वम् । यः꣢ । म꣡र्त्ये꣢꣯षु । नि꣡ध्रु꣢꣯विः । नि । ध्रु꣣विः । ऋता꣡वा꣢ । त꣡पु꣢꣯र्मूर्धा । त꣡पुः꣢꣯ । मू꣣र्धा । घृ꣡तान्नः꣢ । घृ꣣त꣢ । अ꣣न्नः । पावकः ॥१२१९॥

Mantra without Swara
अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम् । यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः ॥

अग्निम् । वः । देवम् । अग्निभिः । सजोषाः । स । जोषाः । यजिष्ठम् । दूतम् । अध्वरे । कृणुध्वम् । यः । मर्त्येषु । निध्रुविः । नि । ध्रुविः । ऋतावा । तपुर्मूर्धा । तपुः । मूर्धा । घृतान्नः । घृत । अन्नः । पावकः ॥१२१९॥

Samveda - Mantra Number : 1219
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मनुष्याः ! यः (अग्निभिः सजोषाः) गार्हपत्याहवनीयादिभिः अग्निभिः सप्रीतिः अस्ति, तज्ज्ञानवानस्तीति भावः, तम् (यजिष्ठम्) यज्ञस्य साधकतमम्, (अग्निम्) अग्रगण्यम् (देवम्) विद्वांसम् (वः) यूयम् (अध्वरे) यज्ञे (दूतम्) दूतवन्माध्यमम्, पुरोहितमिति भावः, (कृणुध्वम्) कुरुत, (यः) विद्वान् (मर्त्येषु) मनुष्येषु (निध्रुविः) निरतिशयस्थिरमतिः, (ऋतावा) सत्यनिष्ठः। [ऋतं सत्यम्, ततो मत्वर्थे ‘छन्दसीवनिपौ च वक्तव्यौ’ अ० ५।२।१०९ इति वनिप्। ऋतस्यान्तदीर्घश्छान्दसः।] (तपुर्मूर्धा२) परिपक्वमस्तिष्कः, (घृतान्नः) घृतदुग्धादिसात्त्विकपौष्टिकपदार्थ- भोक्ता, (पावकः) पवित्रतासम्पादकश्च विद्यते ॥१॥३
Essence
सुयोग्य एव कश्चिज्जनोऽध्यात्मयज्ञे बाह्ययज्ञे च पुरोहितत्वेन वरणीयः ॥१॥
Subject
तत्रादौ पुरोहितगुणानाह।
Footnote
१. ऋ० ७।३।१। २. तपुर्मूर्धा तापकं तेजः—इति सा०। तपुः तापनशीलः, मूर्धा प्रधानभूतः—इति वि०। तदुभयं पदकारविरुद्धम्, पदपाठे ‘तपुर्मूर्धा’ इत्यस्य समस्तपदत्वेन स्वीकृतत्वात्। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्युत्पक्षे व्याख्यातवान्।