Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1217

1875 Mantra
Devata- पवमानः सोमः Rishi- निध्रुविः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡यु꣢क्त꣣ सू꣢र꣣ ए꣡त꣢शं꣣ प꣡व꣢मानो म꣣ना꣡वधि꣢꣯ । अ꣣न्त꣡रि꣢क्षेण꣣ या꣡त꣢वे ॥१२१७॥

अ꣡यु꣢꣯क्त । सू꣡रः꣢꣯ । ए꣡त꣢꣯शम् । प꣡व꣢꣯मानः । म꣣नौ꣢ । अ꣡धि꣢꣯ । अ꣣न्त꣡रि꣢क्षेण । या꣡त꣢꣯वे ॥१२१७॥

Mantra without Swara
अयुक्त सूर एतशं पवमानो मनावधि । अन्तरिक्षेण यातवे ॥

अयुक्त । सूरः । एतशम् । पवमानः । मनौ । अधि । अन्तरिक्षेण । यातवे ॥१२१७॥

Samveda - Mantra Number : 1217
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सूरः) प्रेरकः। [षू प्रेरणे धातोः ‘सुसूधाञ्गृधिभ्यः क्रन्।’ उ० २।२५ इत्यनेन क्रन् प्रत्ययः।] (पवमानः) क्रियाशीलः सोमः परमेश्वरः (अन्तरिक्षेण) आकाशमार्गेण (यातवे) यातुम् (मनौ अधि) मनुष्ये (एतशम्) प्राणरूपम् अश्वम्। [एतशः इत्यश्वनाम। निघं० १।१४।] (अयुक्त) नियुक्तवानस्ति ॥२॥
Essence
परमात्मना सहयोगं प्राणसिद्धिं च प्राप्य मनुष्या आकाशमार्गेण गमनागमने कर्तुं क्षमन्ते ॥२॥२
Subject
अथ परमात्मनः कर्तृत्वं वर्णयति।
Footnote
१. ऋ० ९।६३।८। २. द्रष्टव्यम्, द० भा०, य० १७।६७; भावार्थः—यदा मनुष्यः स्वात्मना सह परमात्मानं युङ्क्ते तदाऽणिमादयः सिद्धयः प्रादुर्भवन्ति, ततोऽव्याहतगत्याभीष्टानि स्थानानि गन्तुं शक्नोति नान्यथा।