Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1213

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣पघ्न꣡न्प꣢वते꣣ मृ꣢꣫धोऽप꣣ सो꣢मो꣣ अ꣡रा꣢व्णः । ग꣢च्छ꣣न्नि꣡न्द्र꣢स्य निष्कृ꣣त꣢म् ॥१२१३॥

अ꣣पघ्न꣢न् । अ꣣प । घ्न꣢न् । प꣣वते । मृ꣡धः꣢꣯ । अ꣡प꣢꣯ । सो꣡मः꣢꣯ । अ꣡रा꣢꣯व्णः । अ । रा꣣व्णः । ग꣡च्छ꣢꣯न् । इ꣡न्द्र꣢꣯स्य । नि꣣ष्कृत꣢म् । निः꣣ । कृत꣣म् ॥१२१३॥

Mantra without Swara
अपघ्नन्पवते मृधोऽप सोमो अराव्णः । गच्छन्निन्द्रस्य निष्कृतम् ॥

अपघ्नन् । अप । घ्नन् । पवते । मृधः । अप । सोमः । अराव्णः । अ । राव्णः । गच्छन् । इन्द्रस्य । निष्कृतम् । निः । कृतम् ॥१२१३॥

Samveda - Mantra Number : 1213
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सोमः) जागरितः वीररसः (इन्द्रस्य) जीवात्मनः (निष्कृतम्) संस्कृतं गृहम् मनोरूपम्। [निरित्येष समित्येतस्य स्थाने। एमीदेषां निष्कृतं जारिणीव (ऋ० १०।३४।५) इत्यपि निगमो भवति। निरु० १२।७।] (गच्छन्) व्रजन्, (मृधः) सङ्ग्रामकारिणः (अपघ्नन्) अपहिंसन्, अपि च (अराव्णः) अदानशीलान् कृपणान् शत्रून् (अप) अपघ्नन् अवहिंसन् (पवते) प्रवहति ॥१॥
Essence
वीररसेनाप्लुतो मानवः सर्वानान्तरान् बाह्यांश्च शत्रूनुच्छेत्तुं प्रभवति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५१० क्रमाङ्के परमात्मपक्षे व्याख्याता। अत्र वीररसविषयः प्रदर्श्यते।
Footnote
१. ऋ० ९।६१।२५, साम० ५१०।