Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1212

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡रि꣢ णो꣣ अ꣡श्व꣢मश्व꣣वि꣡द्गोम꣢꣯दिन्दो꣣ हि꣡र꣢ण्यवत् । क्ष꣡रा꣢ सह꣣स्रि꣢णी꣣रि꣡षः꣢ ॥१२१२॥

प꣡रि꣢꣯ । नः꣣ । अ꣡श्व꣢꣯म् । अ꣣श्ववि꣢त् । अ꣣श्व । वि꣢त् । गो꣡म꣢꣯त् । इ꣣न्दो । हि꣡र꣢꣯ण्यवत् । क्ष꣡र꣢꣯ । स꣣हस्रि꣡णीः꣢ । इ꣡षः꣢꣯ ॥१२१२॥

Mantra without Swara
परि णो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् । क्षरा सहस्रिणीरिषः ॥

परि । नः । अश्वम् । अश्ववित् । अश्व । वित् । गोमत् । इन्दो । हिरण्यवत् । क्षर । सहस्रिणीः । इषः ॥१२१२॥

Samveda - Mantra Number : 1212
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) सम्पद्वर्षक परमात्मन् वीर जन वा ! (अश्ववित्) अश्वानां प्राणबलनां तुरगाणां वा लम्भकः त्वम् (नः) अस्मभ्यम्, (अश्वम्) प्राणबलम् अश्वसमूहं वा (परिक्षर) परितो वर्ष। अपि च (गोमद्) वाग्बलयुक्तं धेनुयुक्तं वा, (हिरण्यवत्) ज्योतिर्युक्तं सुवर्णयुक्तं वा यथा स्यात् तथा (सहस्रिणीः) सहस्रसंख्योपेताः (इषः) अभीष्टसम्पदः (परिक्षर) परितो वर्ष ॥३॥
Essence
परमेशकृपया सर्वा दिव्या भौतिक्यश्च सम्पदः प्राप्तुं शक्यन्ते। किञ्च ते वीरा भवन्ति तेषामेव सम्पदो हस्तगता जायन्ते, ते चान्यानपि ता लम्भयन्ति ॥३॥
Subject
अथ परमेश्वरो वीरो जनश्च सम्बोध्यते।
Footnote
१. ऋ० ९।६१।३।