Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1211

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
पु꣡रः꣢ स꣣द्य꣢ इ꣣त्था꣡धि꣢ये꣣ दि꣡वो꣢दासाय꣣ श꣡म्ब꣢रम् । अ꣢ध꣣ त्यं꣢ तु꣣र्व꣢शं꣣ य꣡दु꣢म् ॥१२११॥

पु꣡रः꣢꣯ । स꣣द्यः꣢ । स꣣ । द्यः꣢ । इ꣣त्था꣡धि꣢ये । इ꣣त्था꣢ । धि꣣ये । दि꣡वो꣢꣯दासाय । दि꣡वः꣢꣯ । दा꣣साय । श꣡म्ब꣢꣯रम् । शम् । ब꣣रम् । अ꣡ध꣢꣯ । त्यम् । तु꣣र्व꣡श꣢म् । य꣡दु꣢꣯म् ॥१२११॥

Mantra without Swara
पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् । अध त्यं तुर्वशं यदुम् ॥

पुरः । सद्यः । स । द्यः । इत्थाधिये । इत्था । धिये । दिवोदासाय । दिवः । दासाय । शम्बरम् । शम् । बरम् । अध । त्यम् । तुर्वशम् । यदुम् ॥१२११॥

Samveda - Mantra Number : 1211
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्दो तेजसा देदीप्त परमात्मन् वीरजन वा ! त्वम् (इत्थाधिये) सत्यकर्मणे। [इत्था इति सत्यनाम। निघं० ३।१०, धीरिति कर्मनाम। निघं० २।१] (दिवोदासाय२) दिवः विद्याधर्मप्रकाशस्य दासः दाता तस्मै, तस्य हितायेत्यर्थः (सद्यः) सपदि (शंबरम्) शान्तिनिवारकं शत्रुम्, (अध) अपि च (त्यम्) तम् (तुर्वशम्) हिंसाकामं शत्रुम्। [तुरं हिंसां वष्टि कामयते यः स तुर्वशः। तुर्वी हिंसार्थः। वश कान्तौ।] (यदुम्) धर्मप्रतिबन्धकं च शत्रुम्। [यच्छति प्रतिबध्नाति धर्मकर्माणि यः स यदुः। यम उपरमे, दुक् प्रत्ययः।] (पुरः) तेषां नगरीश्च (अवाहन्) अवजहि। [अवाहन्निति पूर्वमन्त्रादाकृष्यते। लोडर्थे लङ्] ॥२॥
Essence
परमात्मनः कृपया वीराणां च शौर्यकर्मणा सुखशान्तिधर्मकर्मादिप्रतिबन्धकाः शत्रवः सदैव पराजेयाः धार्मिकाश्च जना उन्नेयाः ॥२॥ अत्र सायणाचार्यस्य दिवोदासो नाम राजाऽभिमतः। यदुतुर्वशशम्बराश्च तेन तद्विरोधिनो नृपाः स्वीकृताः यान् सोमरसं पीत्वा मत्तः सन्निन्द्रो दिवोदासस्य हिताय वशमानयत्। तत्तु न समञ्जसं सृष्ट्यादौ प्रादुर्भूते वेदे पश्चाद्वर्त्तिनां नृपादीनामितिहासस्यासम्भवादिति सुधीभिरध्यवसेयम् ॥
Subject
अथ परमेश्वरः प्रार्थ्यते वीरो जनश्चोद्बोध्यते।
Footnote
१. ऋ० ९।६१।२। २. दिवो विद्याधर्मप्रकाशस्य दातारम्। दिवश्च दास उपसंख्यानम्। अ० ६।३।२१ वा० इति षष्ठ्या अलुक्—इति ऋ० १।११२।१४ भाष्ये द०।