Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1210

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣या꣢ वी꣣ती꣡ परि꣢꣯ स्रव꣣ य꣡स्त꣢ इन्दो꣣ म꣢दे꣣ष्वा꣢ । अ꣣वा꣡ह꣢न्नव꣣ती꣡र्नव꣢꣯ ॥१२१०॥

अ꣣या꣢ । वी꣣ती꣢ । प꣡रि꣢꣯ । स्र꣣व । यः꣢ । ते꣣ । इन्दो । म꣡दे꣢꣯षु । आ । अ꣣वा꣡ह꣢न् । अ꣣व । अ꣡ह꣢꣯न् । न꣣वतीः꣢ । न꣡व꣢꣯ ॥१२१०॥

Mantra without Swara
अया वीती परि स्रव यस्त इन्दो मदेष्वा । अवाहन्नवतीर्नव ॥

अया । वीती । परि । स्रव । यः । ते । इन्दो । मदेषु । आ । अवाहन् । अव । अहन् । नवतीः । नव ॥१२१०॥

Samveda - Mantra Number : 1210
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) तेजसा देदीप्त वीर ! त्वम् (अया वीती२) अनया रीत्या (परि स्रव) व्यवहर, यत् (यः) यो जनः (ते मदेषु आ) तव वीरताजनितानाम् उत्साहानां सम्पर्कं प्राप्नुयात्, सः (नवनवतीः) नवतिनवतिसंख्यकानां शत्रुयोद्धॄणां नवव्यूहान् (अवाहन्) अवहन्यात् ॥१॥
Essence
वीरः सेनापतिः स्वसेनाया भटानेवमुत्साहयेद् यत्ते प्रतिभटानां शतशोऽपि व्यूहान् क्षणेनावच्छिन्द्युः। आन्तरस्य देवासुरसंग्रामस्य चमूपतिर्जीवात्माप्यान्तरान् शत्रूनुत्सादयितुं तथैवाचरेत् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४९५ क्रमाङ्के परमात्मानं सम्बोध्य व्याख्याता। अत्र वीरो जनः सम्बोध्यते।
Footnote
१. ऋ० ९।६१।१, साम० ४९५। २. अया अनया वीत्या मार्गेण परिस्रव—इति वि०। अया अनेन रसेन वीती वीत्यै इन्द्रस्य भक्षणाय परिस्रव परिक्षर—इति सा०।