Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1208

1875 Mantra
Devata- पवमानः सोमः Rishi- उचथ्य आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣡ प꣢वस्व मदिन्तम प꣣वि꣢त्रं꣣ धा꣡र꣢या कवे । अ꣣र्क꣢स्य꣣ यो꣡नि꣢मा꣣स꣡द꣢म् ॥१२०८॥

आ । प꣣वस्व । मदिन्तम । पवि꣡त्र꣢म् । धा꣡र꣢꣯या । क꣣वे । अ꣣र्क꣡स्य꣢ । यो꣡नि꣢꣯म् । आ꣣स꣡द꣢म् । आ । सदम् ॥१२०८॥

Mantra without Swara
आ पवस्व मदिन्तम पवित्रं धारया कवे । अर्कस्य योनिमासदम् ॥

आ । पवस्व । मदिन्तम । पवित्रम् । धारया । कवे । अर्कस्य । योनिम् । आसदम् । आ । सदम् ॥१२०८॥

Samveda - Mantra Number : 1208
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (मदिन्तम) आनन्दयितृतम, (कवे) क्रान्तद्रष्टः सोम रसागार परमात्मन् ! त्वम् (अर्कस्य२) अर्चकस्य जीवात्मनः (योनिम्) गृहम् आनन्दमयकोशम् (आसदम्) आसत्तुम् (पवित्रम्) पवित्रं यथा स्यात् तथा (धारया) आनन्दधारया सह (पवस्व) प्रवाहितो भव ॥४॥
Essence
परमात्मनः सकाशात् प्रस्रवन्तीमानन्दधारां प्राप्य जीवात्मा कृतार्थो जायते ॥४॥
Subject
अथ परमेश्वरः प्रार्थ्यते।
Footnote
१. ऋ० ९।२५।६; ५०।४।२. अर्कस्यार्चनीयस्य इन्द्रस्य—इति सा०। अर्को द्रोणकलशः, अथवा अर्क आदित्यः, अथवा आदित्यरश्मयोऽर्काः, अथवा अर्का मन्त्रास्तेषां योनिं स्थानम्—इति वि०।