Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1207

1875 Mantra
Devata- पवमानः सोमः Rishi- उचथ्य आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣢व्या꣣ वा꣢रैः꣣ प꣡रि꣢ प्रि꣣य꣡ꣳ ह꣢꣯रिꣳ हिन्व꣣न्त्य꣡द्रि꣢भिः । प꣡व꣢मानं मधु꣣श्चु꣡त꣢म् ॥१२०७॥

अ꣡व्याः꣢꣯ । वा꣡रैः꣢꣯ । प꣡रि꣢꣯ । प्रि꣣य꣢म् । ह꣡रि꣢꣯म् । हि꣣न्वन्ति । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । प꣡व꣢꣯मानम् । म꣣धुश्चु꣡त꣢म् । म꣣धु । श्चु꣡त꣢꣯म् ॥१२०७॥

Mantra without Swara
अव्या वारैः परि प्रियꣳ हरिꣳ हिन्वन्त्यद्रिभिः । पवमानं मधुश्चुतम् ॥

अव्याः । वारैः । परि । प्रियम् । हरिम् । हिन्वन्ति । अद्रिभिः । अ । द्रिभिः । पवमानम् । मधुश्चुतम् । मधु । श्चुतम् ॥१२०७॥

Samveda - Mantra Number : 1207
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(प्रियम्) उपासकानां प्रेमास्पदम्, (हरिम्) दुःखानां हर्तारम्, (पवमानम्) हृदयं पवित्रयन्तम्, (मधुश्चुतम्) आनन्दस्राविणम् सोमं परमात्मानम्, उपासकाः जनाः (अव्याः वारैः) चित्तभूमेः विक्षेपनिवारणोपायैः (अद्रिभिः) ध्यानरूपैः पेषणसाधनैश्च (परिहिन्वन्ति) स्वात्मनि प्रेषयन्ति, परिपश्यन्तीत्यर्थः ॥३॥
Essence
योगविघ्नभूतान् व्याधिस्त्यानसंशयादीन् दुःखदौर्मनस्यादींश्च विनिवार्य ध्यानद्वारा परमात्मानं साक्षात्कृत्य सर्वैरानन्दवारिधारायां स्नातव्यम् ॥३॥
Subject
अथ कीदृशः परमेश्वरः कथं साक्षात्करणीय इत्याह।
Footnote
१. ऋ० ९।५०।३, ‘अव्या वारैः’ इत्यत्र ‘अव्यो॒ वारे॒’ इति पाठः।