Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1206

1875 Mantra
Devata- पवमानः सोमः Rishi- उचथ्य आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प्र꣣सवे꣢ त꣣ उ꣡दी꣢रते ति꣣स्रो꣡ वाचो꣢꣯ मख꣣स्यु꣡वः꣢ । य꣢꣫दव्य꣣ ए꣢षि꣣ सा꣡न꣢वि ॥१२०६॥

प्र꣣सवे । प्र꣣ । सवे꣢ । ते꣣ । उ꣣त् । ई꣢रते । तिस्रः꣢ । वा꣡चः꣢꣯ । म꣣खस्यु꣡वः꣢ । यत् । अ꣡व्ये꣢꣯ । ए꣡षि꣢꣯ । सा꣡न꣢꣯वि ॥१२०६॥

Mantra without Swara
प्रसवे त उदीरते तिस्रो वाचो मखस्युवः । यदव्य एषि सानवि ॥

प्रसवे । प्र । सवे । ते । उत् । ईरते । तिस्रः । वाचः । मखस्युवः । यत् । अव्ये । एषि । सानवि ॥१२०६॥

Samveda - Mantra Number : 1206
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम रसागार परमात्मन् ! (ते प्रसवे) ध्यानद्वारा तव आविर्भावे सति (मखस्युवः) उपासनायज्ञपूर्तिकामाः उपासकाः। [मखशब्दात् क्यचि उ प्रत्ययः। क्यचि सुग् वक्तव्यः। अ० ७।१।५१ इति वार्तिकेन सुगागमः।] (तिस्रः वाचः) ऋग्यजुःसामलक्षणाः तिस्रो गिरः (उदीरते) उच्चारयन्ति, (यत्) यदा, त्वम् (अव्ये सानवि) जीवात्मनः उन्नते धाम्नि (एषि) प्राप्नोषि। [अविः रक्षकः आत्मा, तस्येदम् अव्यम् तस्मिन्। सानवि सानौ। अत्र बाहुलकाद् ‘अच्च घेः’ अ० ७।३।११९ इति न प्रवर्तते, ततो गुणेऽवादेशे च ‘सानवि’ इति रूपनिष्पत्तिः] ॥२॥
Essence
सर्वेषामन्तरात्मनि पूर्वमेव विद्यमानः परमात्मा ध्यानेन वेदमन्त्राणां गानेन च प्रकटीकरणीयः ॥२॥
Subject
अथ परमात्माविर्भावविषयमाह।
Footnote
१. ऋ० ९।५०।२।