Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1202

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
नि꣡त्य꣢स्तोत्रो꣣ व꣢न꣣स्प꣡ति꣢र्धे꣣ना꣢म꣣न्तः꣡ स꣢ब꣣र्दु꣡घा꣢म् । हि꣣न्वानो꣡ मानु꣢꣯षा यु꣣जा꣢ ॥१२०२॥

नि꣡त्य꣢꣯स्तोत्रः । नि꣡त्य꣢꣯ । स्तो꣣त्रः । व꣢न꣣स्प꣡तिः꣢ । धे꣣ना꣢म् । अ꣣न्त꣡रिति꣢ । स꣣बर्दु꣡घा꣢म् । स꣣बः । दु꣡घा꣢꣯म् । हि꣡न्वानः꣢ । मा꣡नु꣢꣯षा । यु꣣जा꣢ ॥१२०२॥

Mantra without Swara
नित्यस्तोत्रो वनस्पतिर्धेनामन्तः सबर्दुघाम् । हिन्वानो मानुषा युजा ॥

नित्यस्तोत्रः । नित्य । स्तोत्रः । वनस्पतिः । धेनाम् । अन्तरिति । सबर्दुघाम् । सबः । दुघाम् । हिन्वानः । मानुषा । युजा ॥१२०२॥

Samveda - Mantra Number : 1202
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(नित्यस्तोत्रः) सन्ध्योपासनरूपनित्यकर्मत्वेन स्तवनीयः, (वनस्पतिः) वनसां तेजसां पतिः अधीश्वरः सोमः परमात्मा (मानुषा युजा) मानुषयोः युजोः उपासकयोः स्त्रीपुरुषयोः। [उभयत्र सुपां सुलुक्०। अ० ७।१।३९ इत्यनेन षष्ठीद्विवचनस्य आकारादेशः।] (अन्तः) अन्तःकरणे (सबर्दुघाम्) आनन्दरसदोग्ध्रीम् (धेनाम्) दिव्यां वाचम् [धेना इति वाङ्नाम। निघं० १।११।] (हिन्वानः) प्रेरयन्, भवतीति शेषः। [हि गतौ वृद्धौ च स्वादिः। आत्मनेपदं छान्दसम्] ॥७॥ अत्र ‘दुघाम्’ इति कथनेन धेनायां गोत्वारोपो व्यङ्ग्यः ॥७॥
Essence
परमेश्वरोपासनाया अयमेव लाभो यद् दिव्यानन्दः शुभकर्मसूत्साहश्च प्राप्यते ॥७॥
Subject
अथ परमात्मा स्तोतारं कथमुपकरोतीत्याह।
Footnote
१. ऋ० ९।१२।७, ‘धी॒नाम॒न्तः स॑ब॒र्दुघः॑। हि॒न्वा॒नो मानु॑षा यु॒गा’ इति पाठः।