Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1200

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
यः꣡ सोमः꣢꣯ क꣣ल꣢शे꣣ष्वा꣢ अ꣣न्तः꣢ प꣣वि꣢त्र꣣ आ꣡हि꣢तः । त꣢꣫मिन्दुः꣣ प꣡रि꣢ षस्वजे ॥१२००॥

यः । सो꣡मः꣢꣯ । क꣣ल꣡शे꣢षु । आ । अ꣣न्त꣡रिति꣢ । प꣣वि꣡त्रे꣢ । आ꣡हि꣢꣯तः । आ । हि꣣तः । त꣢म् । इ꣡न्दुः꣢꣯ । प꣡रि꣢꣯ । स꣣स्वजे ॥१२००॥

Mantra without Swara
यः सोमः कलशेष्वा अन्तः पवित्र आहितः । तमिन्दुः परि षस्वजे ॥

यः । सोमः । कलशेषु । आ । अन्तरिति । पवित्रे । आहितः । आ । हितः । तम् । इन्दुः । परि । सस्वजे ॥१२००॥

Samveda - Mantra Number : 1200
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यः सोमः) यो जगत्स्रष्टा सर्वान्तर्यामी रसागारः परमाह्लादकः परमेश्वरः (कलशेषु) बहुकलायुक्तेषु शरीरेषु। [कलशः कस्मात्? कला अस्मिञ्छेरते मात्राः। निरु० ११।१०]। (आ) आहितोऽस्ति, किञ्च (अन्तः पवित्रे) पवित्रहृदयाभ्यन्तरेऽपि (आहितः) विद्यमानो वर्तते, (तम्) परमेश्वरम् (इन्दुः) दीप्तो जीवात्मा (परिषस्वजे) पर्यालिङ्गति। [ष्वञ्ज, परिष्वङ्गे, भ्वादिः] ॥५॥
Essence
परमात्मशरणावलम्बनं जीवात्मनः परमाह्लादकरं जायते ॥५॥
Subject
अथ परमात्मजीवात्मनोः संगमं वर्णयति।
Footnote
१. ऋ० ९।१२।५, ‘क॒लशे॒ष्वाँ’ इति पाठः।