Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 12

1875 Mantra
Devata- अग्निः Rishi- वामदेवो गौतमः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
दू꣣तं꣡ वो꣢ वि꣣श्व꣡वे꣢दसꣳ हव्य꣣वा꣢ह꣣म꣡म꣢र्त्यम् । य꣡जि꣢ष्ठमृञ्जसे गि꣣रा꣢ ॥१२॥

दू꣣त꣢म् । वः꣣ । विश्व꣡वे꣢दसम् । वि꣣श्व꣢ । वे꣣दसम् । हव्यवा꣡ह꣢म् । ह꣣व्य । वा꣡ह꣢꣯म् । अ꣡म꣢꣯र्त्यम् । अ । म꣣र्त्यम् । य꣡जि꣢꣯ष्ठम् । ऋ꣣ञ्जसे । गिरा꣢ ॥१२॥

Mantra without Swara
दूतं वो विश्ववेदसꣳ हव्यवाहममर्त्यम् । यजिष्ठमृञ्जसे गिरा ॥

दूतम् । वः । विश्ववेदसम् । विश्व । वेदसम् । हव्यवाहम् । हव्य । वाहम् । अमर्त्यम् । अ । मर्त्यम् । यजिष्ठम् । ऋञ्जसे । गिरा ॥१२॥

Samveda - Mantra Number : 12
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे परमात्मन् ! (दूतम्) दौत्यमापन्नम्, सद्गुणग्रामान् अस्मत्समीपे समानेतुं दूतवदाचरन्तम्, (विश्ववेदसम्) विश्वानि सर्वाणि पूर्वजन्मन्यस्मिन् जन्मनि च कृतानि कर्माणि वेत्तीति विश्ववेदास्तम्, (हव्यवाहम्) हव्यं दातव्यं कर्मफलं वहति प्रापयतीति तम् कर्मफलदातारम्, (अमर्त्यम्) अमरणधर्माणम्, (यजिष्ठम्) अतिशयेन यष्टारम्—महतः सृष्टिचक्रप्रवर्तनयज्ञस्य संचालकं (वः) त्वाम्३। यज धातोस्तृजन्ताद् यष्टृ शब्दादिष्ठनि तुरिष्ठेमेयस्सु। अ० ६।४।१५४ इति तृचो लोपः। अहम् (गिरा) वेदवाचा (ऋञ्जसे) प्रसाधयामि, अनुनयामि। ऋञ्जतिः प्रसाधनकर्मा। निरु० ६।२१। लेट्युत्तमैकवचने ‘सिब्बहुलं लेटि। अ० ३।१।१४ इति सिप् ॥२॥
Essence
मनुष्यः शुभान्यशुभानि वा यान्यपि कर्माण्याचरति परमेश्वरस्तत्क्षणमेव तानि जानाति, यथाकालं तेषां फलं चावश्यं प्रयच्छति। जरामरणरहितः, सृष्टियज्ञस्य परमयाज्ञिकः परमेश्वरोऽस्माभिः सश्रद्धं वेदमन्त्रोच्चारणपुरस्सरं सदा वन्दनीयः ॥२॥
Subject
अथ कीदृशं परमात्मानमहं स्तौमीत्याह।
Footnote
१. अमेरभिभवार्थात् अमित्रम्—इति भ०। २. ऋ० ४।८।१। ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्युदग्निविषये व्याख्यातवान्। ३. छन्दस्येकवचनेऽपि युष्मदो वसादेशो दृश्यते।