Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1199

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
दि꣣वो꣡ नाभा꣢꣯ विचक्ष꣣णो꣢ऽव्या꣣ वा꣡रे꣢ महीयते । सो꣢मो꣣ यः꣢ सु꣣क्र꣡तुः꣢ क꣣विः꣢ ॥११९९॥

दि꣣वः꣢ । ना꣡भा꣢꣯ । वि꣣चक्षणः꣢ । वि꣣ । चक्षणः꣢ । अ꣡व्याः꣢꣯ । वा꣡रे꣢꣯ । म꣣हीयते । सो꣡मः꣢꣯ । यः । सु꣣क्र꣡तुः꣢ । सु꣣ । क्र꣡तुः꣢꣯ । क꣣विः꣢ ॥११९९॥

Mantra without Swara
दिवो नाभा विचक्षणोऽव्या वारे महीयते । सोमो यः सुक्रतुः कविः ॥

दिवः । नाभा । विचक्षणः । वि । चक्षणः । अव्याः । वारे । महीयते । सोमः । यः । सुक्रतुः । सु । क्रतुः । कविः ॥११९९॥

Samveda - Mantra Number : 1199
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(विचक्षणः) सर्वद्रष्टा (सोमः) परमेश्वरः (यः सुक्रतुः) शुभकर्मा, (कविः) जगद्रूपस्य दृश्यकाव्यस्य वेदरूपस्य श्रव्यकाव्यस्य च कर्ता वर्तते, सः (दिवः) द्योतमानस्य जीवात्मनः (नाभा) नाभौ, केन्द्रभूते प्राणे। [अत्र ‘सुपां सुलुक्०’ अ० ७।१।३९ इति सप्तम्या डाऽऽदेशः।] किञ्च (अव्याः वारे) अवेः प्रकृतेः बालवद् विद्यमाने प्रकृत्या आविर्भूते व्यक्ते जगतीत्यर्थः, (महीयते) महिमानं प्राप्नोति। [महीङ् पूजायाम्, कण्ड्वादिः। अवि॒र्वै नाम॑ दे॒वत॒र्तेना॑स्ते॒ परी॑वृता। तस्या॑ रू॒पेणे॒मे वृ॒क्षा हरि॑ता॒ हरि॑तस्रजः ॥ अथ० १०।८।३१ इति प्रामाण्याद् अविशब्दस्य प्रकृतिवाचकत्वम्] ॥४॥
Essence
जडचेतनात्मके सर्वस्मिन्नपि जगत्यन्तर्यामितया विद्यमानः सर्वज्ञः सर्वकर्मा जगदीश्वरः सर्वत्र कीर्तिं लभते ॥४॥
Subject
अथ परमात्मनो महिमानं वर्णयति।
Footnote
१. ऋ० ९।१२।४, ‘विचक्ष॒णोऽव्यो॒ वारे॑’ इति पाठः।