Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1197

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣भि꣡ विप्रा꣢꣯ अनूषत꣣ गा꣡वो꣢ व꣣त्सं꣢꣫ न धे꣣न꣡वः꣢ । इ꣢न्द्र꣣ꣳ सो꣡म꣢स्य पी꣣त꣡ये꣢ ॥११९७॥

अ꣣भि꣢ । वि꣡प्राः꣢꣯ । वि । प्राः꣣ । अनूषत । गा꣡वः꣢꣯ । व꣣त्स꣢म् । न । धे꣣न꣡वः꣢ । इ꣡न्द्र꣢꣯म् । सो꣡म꣢꣯स्य । पी꣣त꣡ये꣢ ॥११९७॥

Mantra without Swara
अभि विप्रा अनूषत गावो वत्सं न धेनवः । इन्द्रꣳ सोमस्य पीतये ॥

अभि । विप्राः । वि । प्राः । अनूषत । गावः । वत्सम् । न । धेनवः । इन्द्रम् । सोमस्य । पीतये ॥११९७॥

Samveda - Mantra Number : 1197
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(विप्राः) मेधाविनः स्तोतारः (सोमस्य) ब्रह्मानन्दरसस्य (पीतये) पानाय (इन्द्रम्) जीवात्मानम् (अभि अनूषत) आह्वयन्ति। कथमिव ? (धेनवः) प्रीणयित्र्यः (गावः) पयस्विन्यः, स्वकीयं पयः पाययितुम् (वत्सं न) यथा वत्सम् आह्वयन्ति तद्वत् ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
यथा वत्सः स्वकीयाया मातुर्दुग्धं पीत्वा तृप्तो जायते तथैवोपासका जनाः परमात्मन आनन्दरसं पीत्वा परमां तृप्तिं लभन्ते ॥२॥
Subject
अथ स्तोतारः कथं किं कुर्वन्तीत्याह।
Footnote
१. ऋ० ९।१२।२, ‘धेनवः’ इत्यत्र ‘मा॒तरः॑’।