Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1196

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
सो꣡मा꣢ असृग्र꣣मि꣡न्द꣢वः सु꣣ता꣢ ऋ꣣त꣢स्य꣣ धा꣡र꣢या । इ꣡न्द्रा꣢य꣣ म꣡धु꣢मत्तमाः ॥११९६॥

सो꣡माः꣢꣯ । अ꣣सृग्रम् । इ꣡न्द꣢꣯वः । सु꣣ताः꣢ । ऋ꣣त꣡स्य꣢ । धा꣡र꣢꣯या । इ꣡न्द्रा꣢꣯य । म꣡धु꣢꣯मत्तमाः ॥११९६॥

Mantra without Swara
सोमा असृग्रमिन्दवः सुता ऋतस्य धारया । इन्द्राय मधुमत्तमाः ॥

सोमाः । असृग्रम् । इन्दवः । सुताः । ऋतस्य । धारया । इन्द्राय । मधुमत्तमाः ॥११९६॥

Samveda - Mantra Number : 1196
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सुताः) अभिषुताः, (इन्दवः) क्लेदकाः, (मधुमत्तमाः) मधुरतमाः (सोमाः) परमानन्दरसाः (ऋतस्य) सत्यस्य (धारया) प्रवाहसन्तत्या (इन्द्राय) जीवात्मने (असृग्रम्) सृज्यन्ते ॥१॥
Essence
ब्रह्मान्दे निमग्न एव जनस्तन्माधुर्यमनुभवितुं शक्नोति ॥१॥
Subject
तत्रादौ ब्रह्मानन्दरसान् वर्णयति।
Footnote
१. ऋ० ९।१२।१, ‘धारया’ इत्यत्र ‘साद॑ने’।