Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1195

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣पघ्न꣢न्तो꣣ अ꣡रा꣢व्णः꣣ प꣡व꣢मानाः स्व꣣र्दृ꣡शः꣢ । यो꣡ना꣢वृ꣣त꣡स्य꣢ सीदत ॥११९५॥

अ꣣पघ्न꣡न्तः꣢ । अ꣣प । घ्न꣡न्तः꣢꣯ । अ꣡रा꣢꣯व्णः । अ । रा꣣व्णः । प꣡व꣢꣯मानाः । स्व꣣र्दृ꣡शः꣢ । स्वः꣣ । दृ꣡शः꣢꣯ । यो꣡नौ꣢꣯ । ऋ꣣त꣡स्य꣢ । सी꣣दत ॥११९५॥

Mantra without Swara
अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः । योनावृतस्य सीदत ॥

अपघ्नन्तः । अप । घ्नन्तः । अराव्णः । अ । राव्णः । पवमानाः । स्वर्दृशः । स्वः । दृशः । योनौ । ऋतस्य । सीदत ॥११९५॥

Samveda - Mantra Number : 1195
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोमाः परमानन्दरसाः ! (अराव्णः) अदानभावान्। [न रान्ति इति अरावाणः तान्, नञ्पूर्वाद् रातेर्दानकर्मणः ‘आतो मनिन्क्वनिब्वनिपश्च’। अ० ३।२।७४ इति वनिप् प्रत्ययः।] (अपघ्नन्तः) विनाशयन्तः, (पवमानाः) पवित्रतां प्रयच्छन्तः, (स्वर्दृशः) अन्तःप्रकाशस्य दर्शयितारः यूयम् (ऋतस्य योनौ) सत्यस्य मन्दिरे जीवात्मनि (सीदत) उपविशत ॥९॥
Essence
ब्रह्मानन्दो यदान्तरात्मनि प्रतितिष्ठति तदा स्वार्थवृत्तयः सर्वा नश्यन्ति, परार्थभावना समुदेति, पवित्रताऽन्तःप्रकाशश्च परिस्फुरति ॥९॥ अस्मिन् खण्डे परमात्मविषयस्य ब्रह्मानन्दविषयस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ ब्रह्मानन्दप्राप्तेः फलं वर्णयति।
Footnote
१. ऋ० ९।१३।९।