Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1194

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
जु꣢ष्ट꣣ इ꣡न्द्रा꣢य मत्स꣣रः꣡ पव꣢꣯मानः꣣ क꣡नि꣢क्रदत् । वि꣢श्वा꣣ अ꣢प꣣ द्वि꣡षो꣢ जहि ॥११९४॥

जु꣡ष्टः꣢꣯ । इ꣡न्द्रा꣢꣯य । म꣣त्सरः꣡ । प꣡व꣢꣯मानः । क꣡निक्रदत् । वि꣡श्वाः꣢꣯ । अ꣡प꣢꣯ । द्वि꣡षः꣢꣯ । ज꣣हि ॥११९४॥

Mantra without Swara
जुष्ट इन्द्राय मत्सरः पवमानः कनिक्रदत् । विश्वा अप द्विषो जहि ॥

जुष्टः । इन्द्राय । मत्सरः । पवमानः । कनिक्रदत् । विश्वाः । अप । द्विषः । जहि ॥११९४॥

Samveda - Mantra Number : 1194
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम प्रेरक परमात्मन् ! (इन्द्राय) जीवात्मने (जुष्टः) प्रियः। [जुषी प्रीतिसेवनयोः, तुदादिः।] (मत्सरः) आनन्दजनकः। [मत्सरः सोमो, मन्दतेस्तृप्तिकर्मणः इति निरुक्तम् (२।५)।] (पवमानः) पवित्रतां प्रयच्छन्, (कनिक्रदत्) उपदिशन्। [‘दाधर्तिदर्धर्ति०’। अ० ७।४।६५ इत्यनेन क्रन्देर्यङ्लुगन्तस्य शतरि अभ्यासस्य चुत्वाभावो निगागमश्च निपात्यते।] त्वम् (विश्वाः द्विषः) सर्वाः द्वेषवृत्तीः, द्वेष्ट्रीः कामक्रोधादीनां सेनाः वा (अप जहि) विनाशय ॥८॥
Essence
परमात्मोपासनेनान्तरात्मनि पवित्रताऽऽह्लादश्च जायते, द्वेषवृत्तयश्च नश्यन्ति ॥८॥
Subject
अथ परमेश्वरं प्रार्थयते।
Footnote
१. ऋ० ९।१३।८, ‘पव॑मान॒’ इति भेदः।