Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1193

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
वा꣣श्रा꣡ अ꣢र्ष꣣न्ती꣡न्द꣢वो꣣ऽभि꣢ व꣣त्सं꣢꣫ न मा꣣त꣡रः꣢ । द꣣धन्विरे꣡ गभ꣢꣯स्त्योः ॥११९३॥

वा꣣श्राः꣢ । अ꣣र्षन्ति । इ꣡न्द꣢꣯वः । अ꣣भि꣢ । व꣣त्स꣢म् । न । मा꣣त꣡रः꣢ । द꣣धन्विरे꣢ । ग꣡भ꣢꣯स्त्योः ॥११९३॥

Mantra without Swara
वाश्रा अर्षन्तीन्दवोऽभि वत्सं न मातरः । दधन्विरे गभस्त्योः ॥

वाश्राः । अर्षन्ति । इन्दवः । अभि । वत्सम् । न । मातरः । दधन्विरे । गभस्त्योः ॥११९३॥

Samveda - Mantra Number : 1193
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वाश्राः) रम्भायमाणाः (मातरः) धेनवः (वत्सं न) वत्सं प्रति यथा गच्छन्ति तथा (वाश्राः) उपदेष्टारः [वाश्यन्ते शब्दायन्ते उपदिशन्तीति वाश्राः। वाशृ शब्दे, दिवादिः। ‘स्फायितञ्चि०’ उ० २।१३ इत्यनेन रक् प्रत्ययः।] (इन्दवः) क्लेदकाः ब्रह्मानन्दरसाः (वत्सम् अभि) प्रियम् उपासकं प्रति (अर्षन्ति) गच्छन्ति, किञ्च (गभस्त्योः) बाह्वोः [गभस्ती इति बाहुनाम। निघं० २।४।] (दधन्विरे) ध्रियन्ते। तेषां प्राप्तौ उपासकः बाहुभ्यां कर्मपरायणो जायते इत्यर्थः ॥७॥ अत्र श्लिष्टोपमालङ्कारः ॥७॥
Essence
ब्रह्मानन्दा अपि सत्कर्माणि विना न शोभन्ते ॥७॥
Subject
अथ परमानन्दप्राप्तिं वर्णयति।
Footnote
१. ऋ० ९।१३।७, ‘मातरः’ इत्यत्र ‘धे॒नवः॑’।