Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1192

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ते꣡ नः꣢ सह꣣स्रि꣡ण꣢ꣳ र꣣यिं꣡ पव꣢꣯न्ता꣣मा꣢ सु꣣वी꣡र्य꣢म् । स्वा꣣ना꣢ दे꣣वा꣢स꣣ इ꣡न्द꣢वः ॥११९२॥

ते꣢ । नः꣣ । सहस्रि꣡ण꣢म् । र꣣यि꣢म् । प꣡व꣢꣯न्ताम् । आ । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् । स्वा꣣नाः꣢ । दे꣣वा꣡सः꣢ । इ꣡न्द꣢꣯वः ॥११९२॥

Mantra without Swara
ते नः सहस्रिणꣳ रयिं पवन्तामा सुवीर्यम् । स्वाना देवास इन्दवः ॥

ते । नः । सहस्रिणम् । रयिम् । पवन्ताम् । आ । सुवीर्यम् । सु । वीर्यम् । स्वानाः । देवासः । इन्दवः ॥११९२॥

Samveda - Mantra Number : 1192
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(ते) पूर्वोक्ताः, (स्वानाः) अभिषूयमाणाः, (देवासः) स्वयं दीप्ताः अन्येषां प्रदीपकाश्च (इन्दवः) रसक्लेदकाः सोमाः परमानन्दरसाः (नः) अस्मभ्यम् (सहस्रिणम्) सहस्रसंख्यावन्तम्, (सुवीर्यम्) सुवीर्योपेतम् (रयिम्) अहिंसासत्यभूतदयान्यायदाक्षिण्यादिकं धनम् (आ पवन्ताम्) आनयन्तु ॥६॥
Essence
परमात्मोपासनया प्राप्यमाणाः परमानन्दा अनन्तां दिव्यगुणसम्पत्तिं लम्भयन्ते ॥६॥
Subject
अथानन्दरसाः किं कुर्वन्त्वित्याह।
Footnote
१. ऋ० ९।१३।५, ‘सु॒वा॒ना’ इति पाठः।