Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1191

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡त्या꣢ हिया꣣ना꣢꣫ न हे꣣तृ꣢भि꣣र꣡सृ꣢ग्रं꣣ वा꣡ज꣢सातये । वि꣢꣫ वार꣣म꣡व्य꣢मा꣣श꣡वः꣢ ॥११९१॥

अ꣡त्याः꣢꣯ । हि꣣यानाः꣢ । न । हे꣣तृ꣡भिः꣢ । अ꣡सृ꣢꣯ग्रम् । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । वि꣢ । वा꣡र꣢꣯म् । अ꣡व्य꣢꣯म् । आ꣣श꣡वः꣢ ॥११९१॥

Mantra without Swara
अत्या हियाना न हेतृभिरसृग्रं वाजसातये । वि वारमव्यमाशवः ॥

अत्याः । हियानाः । न । हेतृभिः । असृग्रम् । वाजसातये । वाज । सातये । वि । वारम् । अव्यम् । आशवः ॥११९१॥

Samveda - Mantra Number : 1191
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वाजसातये) संग्रामाय। [वाजसातिः इति संग्रामनाम। निघं० २।१७।] (हेतृभिः) प्रेरकैः योद्धृभिः (हियानाः) प्रेर्यमाणाः। [हि गतौ वृद्धौ च, कर्मणि रूपम्।] (अत्याः२ न) अश्वाः इव। [अत्यः इत्यश्वनाम। निघं० १।१४।] (हेतृभिः) प्रेरकैः योगाभ्यासैः (हियानाः) प्रेर्यमाणाः (आशवः) आशुगामिनः सोमाः परमानन्दरसाः (वाजसातये) बलप्रदानाय (वारम्) दोषनिवारकम् (अव्यम्) अव्ययम् अविनश्वरं जीवात्मानं प्रति (वि असृग्रम्) विसृज्यन्ते ॥५॥ अत्र श्लिष्टोपमालङ्कारः ॥५॥
Essence
क्षिप्रगामिनो बलवन्तोऽश्वा यथा संग्रामे विजयसाधनतां यान्ति तथा योगाभ्यासजनिताः परमानन्दा आत्मबलप्रदाने कारणतां प्रपद्यन्ते ॥५॥
Subject
अथानन्दरसान् वर्णयति।
Footnote
१. ऋ० ९।१३।६। २. सायणस्तु ‘अति आ’ इति विच्छिद्य व्याख्यातवान्, तत्तु पदकारविरुद्धम्। ऋग्वेदभाष्ये तु तेनापि ‘अत्याः न अश्वाः इव’ इत्युचितमेव व्याख्यातम्। अत्राह सामश्रमी—“व्यत्यसृग्रम् इत्यत्र ऋगादिपादाद् ‘अति’ इत्युपसर्गः, ऋक्तृतीयपादाद् ‘वि’ इत्युपसर्गश्च सङ्गृहीतः ‘व्यत्या’ इति श्रुतौ ‘आ’ पदस्यानर्थक्यमपि स्वीकृतमाचार्येण (सायणेन)। विवरणकृता तु ‘अहि’ नाम दानव इत्यादिना व्याख्यातम्। परन्तूभयविधमेव व्याख्यानं पदग्रन्थविरुद्धत्वादुपेक्षणीयम्। तत्र हि ‘अ꣡त्याः, हि꣣यानाः꣡’, इति पाठदर्शनात्” इति।