Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1190

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣣त꣢ नो꣣ वा꣡ज꣢सातये꣣ प꣡व꣢स्व बृह꣣ती꣡रिषः꣢꣯ । द्यु꣣म꣡दि꣢न्दो सु꣣वी꣡र्य꣢म् ॥११९०॥

उत꣢ । नः꣣ । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । प꣡व꣢꣯स्व । बृ꣣हतीः꣢ । इ꣡षः꣢꣯ । द्यु꣣म꣢त् । इ꣣न्दो । सुवी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् ॥११९०॥

Mantra without Swara
उत नो वाजसातये पवस्व बृहतीरिषः । द्युमदिन्दो सुवीर्यम् ॥

उत । नः । वाजसातये । वाज । सातये । पवस्व । बृहतीः । इषः । द्युमत् । इन्दो । सुवीर्यम् । सु । वीर्यम् ॥११९०॥

Samveda - Mantra Number : 1190
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(उत) इदानीम् हे (इन्दो) रसक्लेदक परमेश्वर ! त्वम्(वाजसातये) आत्मबलस्य मनोबलस्य च प्रदानाय (नः) अस्मभ्यम् (बृहतीः) महतीः (इषः) अभीष्टाः आनन्दरसधाराः, (द्युमत्) तेजोयुक्तम् (सुवीर्यम्) श्रेष्ठसामर्थ्ययुक्तं धनं च (पवस्व) प्रवाहय ॥४॥
Essence
जगदीश्वर एवात्मबलस्यानन्दस्य तेजसः शक्तेश्च दिव्यं स्रोतो वर्तते ॥४॥
Subject
अथ परमेश्वरः प्रार्थ्यते।
Footnote
१. ऋ० ९।१३।४।